Tamil Arts Volume 12 वराहपुराणम् अध्यायः ८
Contents | Article6 | Home

श्रीवराह उवाच । योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह । स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्त्रिकम् ॥ ८.१ ॥ एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् । भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ॥ ८.२ ॥ मिथिलायां वरारोहे सदा पर्वणि पर्वणि । पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ॥ ८.३ ॥ अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् । प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ॥ ८.४ ॥ एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः । पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ॥ ८.५ ॥ तस्य कालेन महता चारित्रेण च धीमतः । बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ॥ ८.६ ॥ तस्या यौवनकाले तु चिन्तयामास धर्मवित् । कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ॥ ८.७ ॥ इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति । धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ॥ ८.८ ॥ एवं संचिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः । उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् । गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ॥ ८.९ ॥ मतङ्ग उवाच । प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः । गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ॥ ८.१० ॥ एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः । मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ॥ ८.११ ॥ धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् । साऽपि श्वशुरयोर्भर्तुः शुश्रीषणपराऽभवत् ॥ ८.१२ ॥ अथ कालेन महता सा कन्याऽर्जुनकी शुभा । उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी । न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ॥ ८.१३ ॥ साऽपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा । पितुर्वेश्मगता बाला रोदमाना मुहुर्मुहुः ॥ ८.१४ ॥ पित्रा पृष्टा किमेतत् ते पुत्रि रोदनकारणम् । एवमुक्ता तदा सा तु कथयामास भामिनी ॥ ८.१५ ॥ श्वश्व्राऽहमुक्ता तीव्रेण कोपेन महता पितः । जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ॥ ८.१६ ॥ एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः । मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ॥ ८.१७ ॥ तस्यागतस्य संबन्धी मतङ्गो जयतां वरः । आसनाद्यर्ध्यपाद्येन पूजयित्वेदमब्रवीत् । किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ॥ ८.१८ ॥ व्याध उवाच । भोजनं किंचिदिच्छामि भोक्तुं चैतन्यवर्जितम् । कौतूहलेन येनाहमागतो भवतो गृहम् ॥ ८.१९ ॥ मतङ्ग उवाच । गोधूमा व्रीमयश्चैव संस्कृता मम वेश्मनि । भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ॥ ८.२० ॥ व्याध उवाच । पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः । स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ॥ ८.२१ ॥ श्रीवराह उवाच । एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् । अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ॥ ८.२२ ॥ दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् । उत्थाय गन्तुमारेभे मतङ्गेन निवारितः ॥ ८.२३ ॥ किमर्थं गन्तुमारब्धं त्वया वद महामते । अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् । पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ॥ ८.२४ ॥ व्याध उवाच । सहस्त्रशः कोटिशश्च जीवान् हंसि दिने दिने । अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ॥ ८.२५ ॥ अचैतन्यं यदि गृहे विद्यतेऽन्नं सुसंस्कृतम् । इदानीमत्र संदृष्टा एते तु जलजन्तवः ॥ ८.२६ ॥ (उप्ताः सहस्त्रतां यान्ति प्रतिसंवत्सरं मुने ।) ॥ ८.२६ (१)॥ अहमेकं कुटुम्बार्थे हन्म्यरण्ये पशुं दिने । तं चेत् पितृभ्यः संस्कृत्य दत्त्वा भुञ्जामि सानुगः ॥ ८.२७ ॥ त्वं तु जीवान् बहून् हत्वा स्वकुटुम्बेन सानुगः । भुञ्जन्नेतेन सततमभोज्यं तन्मतं मम ॥ ८.२८ ॥ ब्रह्मणा तु पुरा सृष्टा ओषध्यः सर्ववीरुधः । यज्ञार्थं तत्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ॥ ८.२९ ॥ दिव्यो भौतस्तथा पैत्रो मानुषो ब्राह्म एव च । एते पञ्च महायज्ञा ब्रह्मणा निर्मिताः पुरा ॥ ८.३० ॥ ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखम् । इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥ ८.३१ ॥ एवं यदि विभागः स्याद् वरान्नं तद् विशुध्यति । अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः । मन्तव्या दातृभोक्तृणां महामांसं तु तत् स्मृतम् ॥ ८.३२ ॥ मया ते दुहिता दत्ता पुत्रार्थे देवरूपिणी । सा च त्वद्भार्यया प्रोक्ता दुहिता जन्तुघातिनः ॥ ८.३३ ॥ अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजां च अतिथीनां च तर्पणम् ॥ ८.३४ ॥ एतेषामेकमप्यत्र कुर्वन्नपि न दृश्यते । तद् गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥ ८.३५ ॥ स्वगृहे नैव भुञ्जामि पितॄणां कार्यमित्युत । अहं व्याधो जीवघाती न तु त्वं लोकहिंसकः ॥ ८.३६ ॥ मत्सुता जीवघातस्य यदोढा त्वत्सुतेन च । तन्महत्त्वं च संजातं प्रायश्चितं तपोधन ॥ ८.३७ ॥ एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् ॥ ८.३८ ॥ मा च स्नुषा कदाचित् स्याद् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥ ८.३९ ॥ ततो देवान् पितॄन् भक्तया पूजयित्वा विचक्षणः । पुत्रं चार्जुनकं स्थाप्य स्वसन्ताने महातपाः ॥ ८.४० ॥ धर्मव्याधो जगामाशु तीर्थं त्रैलोक्यविश्रुतम् । पुरुषोत्तमाख्यं च परं तत्र गत्वा समाहितः । तपश्चचार नियतः पठन् स्तोत्रमिदं धरे ॥ ८.४१ ॥ नमामि विष्णुं त्रिदशारिनाशनं विशालवक्षस्थलसंश्रितश्रियम् । सुशासनं नीतिमतां परां गतिं त्रिविक्रमं मन्दरधारिणं सदा ॥ ८.४२ ॥ दामोदरं रञ्जितभूतलं धिया यशोंशुशुभ्रं भ्रमराङ्गसप्रभम् । धराधरं नरकरिपुं पुरुष्टुतं नमामि विष्णुं शरणं जनार्दनम् ॥ ८.४३ ॥ (नरं नृसिंहं हरिमीश्वरं प्रभुं त्रिधामनामानमनन्तवर्चसम् । सुसंस्कृतास्यं शरणं नरोत्तमं व्रजामि देवं सततं तमच्युतम् ॥ ८.४३ (१)) त्रिधा स्थितं तिग्मरथाङ्गपाणिनं नयस्थितं तृप्तमनुत्तमैर्गुणैः । निःश्रेयसाख्यं क्षपितेतरं गुरुं नमामि विष्णुं पुरुषोत्तमं त्वहम् ॥ ८.४४ ॥ (हतौ पुराणौ मधुकैटभावुभौ बिभर्त्ति च क्ष्मां शिरसा सदा हि सः । यथा स्तुतो मे प्रसभं सनातनो दधातु विष्णुः सुखमूर्जितं मम ॥ ८.४४ (१)) महावराहो हविषाम्बुभोजनो जनार्दनो मे हितकृच्चितीमुखः । क्षितीधरो मामुदधिक्षयो महान् स पातु विष्णुः शरणार्थिनं तु माम् ॥ ८.४५ ॥ मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् । चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ॥ ८.४६ ॥ भवे भवे यश्च ससर्ज्ज कं ततो जगत् प्रसूतं सचराचरं त्विदम् । ततश्च रुद्रात्मवति प्रलीयते- ऽन्वतो हरिर्विष्णुहरस्तथोच्यते ॥ ८.४७ ॥ खात्मेन्दुपृथ्वीपवनाग्निभास्करा जलं च यस्य प्रभवन्ति मूर्त्तयः । स सर्वदा मे भगवान् सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ॥ ८.४८ ॥ इतीरिते तस्य सनातनः स्वयं पुरो बभूवाद्भुतरूपदर्शनः ।
Contents | Article6 | Home