◀ Prev📑 ContentsNext ▶📖 3D Flipbook
सर्वसिद्धानतविवेकः sarva-siddhanta-viveka (isat).html sarva-siddhanta-viveka (nagari).html jñāna-siddhi (isat).html Art and Religion of the Bhairavas सर्वसिद्धानतविवेकः
Contents | Sarva Siddhānta Vivēka | Jñānasiddhi | Home

१। मन्त्रवादः अथातो मन्त्रवादश्च सङ्ग्रहेण निगद्यते । मन्त्रोपासनया मुक्तिः सह प्रागुक्तवर्त्मना ॥ १ नमः स्वाहा स्वधा वौषट् बषङ्ढुंफडिव्भेदतः । सप्तकोटिमहामन्त्राः सर्वकृत्यविधायिनः ॥ २ साक्षाच्छक्तिस्वरूपास्ते नत्वन्येच तथा वचः । मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः ॥ ३ मननत्राणसंयोगात् मन्त्र इत्यभिधीयते । ४ इत्यतोऽपि स्फुटं तस्मात् मन्त्रज्ञानपुरः सरम् । मन्त्रोपासनया मुक्तिर्मन्त्रवादे निरूपिता ॥ ५ २। यन्त्रवादः अथातो यन्त्रवादे तु वामतन्त्रोक्तवर्त्मना । तद्यन्त्रसेवया सर्वं सिध्यतीति विनिश्चयः ॥ ६ सर्वत्रापि विना यन्त्रं मन्त्रभेदेन किं फलम् । तन्त्रभेदेन वा तस्मात्सर्वं यन्त्रेण सिद्धयति ॥ ७ अणिमा महिमा चैव गरिमा लघिमा तथा । ईशत्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥ ८ ततोऽन्ये सिद्धिभेदाश्च कथ्यन्ते कर्षणं पुनः । मोहनं च तथा चोच्चाटन स्तम्भनमेव च ॥ ९ मारणं च तथा विद्वेषणं भेदनमित्यपि । लोकान्तरेषु भोगश्च मुक्तिश्चेति विनिश्चयात् ॥ १० साक्षाच्छक्तिस्वरूपं तद्यन्त्रमेवात्र सेव्यते । तदङ्गत्वेन मन्त्रादि सेवातुल्यं च सम्मतम् ॥ ११ ३। औषधवादः अथात्रौषधवादे तु सर्वमौषधसेवया । साध्यमेवेति सिद्धान्तः तद्धिशक्तयात्मकं मतम् ॥ १२ ततस्तत्तन्त्रसंसिद्धकायकल्पादिसेवया । मण्डलाद्युक्तकालेन जननादिश्च नश्यति ॥ १३ देहकान्तिर्महत्वं च देहस्य नियतं भवेत् । आकाशगमनादिश्च सिद्धिर्मुक्तिश्च सिद्धयति ॥ १४ किं फलं मन्त्रयन्त्रादि सेवयेति विनिश्चितः । १५ ४। कर्मसिद्धान्तः अथातः कर्मसिद्धान्ते सर्व कर्मवशादिति । औषधेन तथा यन्त्रमन्त्रजातैश्च किं फलम् ॥ १६ जातं क्षयं सुखं क्लेशं वार्धकं मरण तथा । एवमुक्तं तु षट्कं च गतसंकल्पनिश्चयम् ॥ १७ जन्मारोग्यं श्रुतं श्रीजनितमथ यशो बन्धुदाराश्च पुत्राः भृत्याः क्षेत्रं गृहाः स्युर्वितरणमपि गीर्देहकान्तिर्महत्वम् । प्रीतिर्मित्रं सखायः शुभमपि च विपत्कालमृत्युर्नराणां पूर्वाभ्यासानुरूपं विधिविहितवशादेति कालं प्रपद्ये ॥ १८ इत्यतो हि नवीनैः किं स्वप्रयत्नैस्तथाविधैः । अत एव तथा लोके शास्त्रेष्वपि च विश्रुतम् ॥ १९ भवितव्यं भवत्येव नालिकेरफलाम्बुवत् । गन्तव्यं गच्छति सदा गजभुक्तकपित्थवत् ॥ २० कुब्ज च काणं विकलं च पड्गुं मूकं च मूर्खं मतिविभ्रमं वा । देवानुकूलेन वृणोति सम्पन्न पौरुष कुत्रचिदस्ति कान्ते ॥ २१ इदं मया प्राप्तमिदं प्रपत्स्ये इदं करोमीति वृथा जनोऽयम् । वदन्त्यहोऽज्ञानवशोऽनवद्ये न पौरुषं कुत्रचिदस्ति कृत्ये । २२ सपुत्रदारः सपशुर्धनाढयः सामर्थ्यतोऽस्मीत्यवपद्यते यः । स विप्रकर्ष किमुपैति शोकं द्विपात्पशुर्ज्ञानबहिष्कृतश्च ॥ २३ इति सञ्चिन्त्य कर्मानुसारिणी बुद्धिरित्यतः । न्यायादेव यथा बुद्धिर्यत एव प्रवर्तते ॥ २४ तथा तत्र प्रवृत्तः सन्नान्यथा कुत्रचित्स्वयम् । सुखदुःखादिविषये नालसो मुक्तिभाग्भवेत् ॥ २५ इत्येवं कर्मवादश्च कथितः सङ्ग्रहेण तु ॥ २६-1 ५। अद्वैतवामसिद्धान्तः अद्वैतवामपक्षे तु सर्वशक्तिविवर्तकम् । तथा शक्तिविवर्तेन विना किञिञ्चन्न दृश्यते ॥ २७ कर्म माया च लोकश्च तथा जीवेश्वरौ शिवः । पशु पाशादि सर्व च विना शक्त्या नहि स्फुटम् ॥ २८ इतिविज्ञानमात्रेण मुक्त एव भवेन्नरः । ब्रह्महा मद्यपः स्तेयी त्वगम्यागमनोऽपि सः ॥ २९ कुतो वा कर्मणा मुक्तिस्तथैव श्रूयते वचः । ज्ञानादेव हिकैवल्यं नान्यथा कर्मकोटिभिः ॥ ३० नाभुतं क्षीयते कर्म कल्पकोटिशतैरपि । इत्यादि वचनं सर्वं अज्ञानि विषयं मतम् ॥ ३१ एवमद्वैतसिद्धान्तो वामभेदे निरूपितः ॥ ३२-1 ६। द्वैतवामसिद्धान्तः द्वैतवामागमे सिद्धः पदार्थस्त्रिविधो मतः । शक्तिः पशुश्च पाशश्च नत्वेका शक्तिरित्यथ ॥ ३३ आत्मा च शक्तिवत्साध्यस्ततः सर्वज्ञतादिमान् । अनादौ मलसम्बन्धातज्ज्ञानादि न राजते ॥ ३४ तथा ज्ञानादिसंसिद्धौ शक्तिदीक्षापुरस्सरम् । गुरोरेव मुखात्प्राप्ततन्त्रज्ञानपरायणः ॥ ३५ चर्यया वाऽथ योगेन पूजादिक्रियया पुनः । उपास्त्या शक्तिभेदानां साक्षाच्छतेरतोऽथवा । ३६ मुक्त एव भवेन्नायं केवलेन तु कर्मणा । विज्ञानेन च मुक्तात्मा शक्त्या च भ्राजते सदा ॥ ३७ मुक्तौ सुनिर्मलः सर्वज्ञता धर्मादिसंयुतः । इत्येवं द्वैतवामाख्ये सिद्धान्तश्च निरूपितः ॥ ३८ ७। मिश्रवामवादः अथातो मिश्रवामे तु पृथक्त्वेपि परस्परम् । त्रयाणां च पदार्थनां व्याप्त्या तस्याश्च शक्तितः ॥ ३९ सर्वेषां मिश्रसिद्धान्ते सर्वं शक्तिमयं स्मृतम् । शिवश्च तस्य देहश्च ज्ञानावरणमेव च ॥ ४० तथात्मा तस्य देहादि तदेवं भुवनानि च । शक्तिरूपमिति ज्ञात्वा शाक्ततन्त्रोक्तवर्त्मना ॥ ४१ साध्या च मधुमांसादिसंपादन पुरस्सरम् । पूजया होमतो वाथ जपेन ध्यानतः पुनः॥ ४२ शक्त्युपासनया मुक्तिः मुक्तः शक्त्यात्मको भवेत् । न शक्तेर्भिन्न एवायं शक्त्या मिश्रो यतः पुनः ॥ ४३ न समश्च भवेच्छक्त्या तथानेकेशवादतः । इत्येवं मिश्रवामे तु तदर्थोऽपि निरूपितः ॥ ४४ ८। वामसिद्धान्तः अथातो वामसिद्धान्तः संग्रहेण निरूप्यते । वामाद्यष्टागमप्रोक्तमङ्गीकृत्य यथोचितम् ॥ ४५ प्रत्यक्षादीनि मानानि प्रागुक्तान्येव तानि वै । शक्तिश्च पशुपाशौ च पदार्थस्त्रिविधो मतः ॥ ४६ अनन्या शक्तिरन्येषां सर्वेषां व्याप्तितो मता । वामादिषु च सर्वेषु कृतकृत्योऽत्र साधकः ॥ ४७ तीव्रतीव्रतरत्वेन शक्तिपातेन संयुतः । शाम्भवी दीक्षया मुक्तः सदुपायबलेन च ॥ ४८ सदुपायस्तु सन्मार्गज्ञानयोगादिकः स्मृतः । आधाराद्या बहुविधा सा ह्यनुग्रहरूपिणि ॥ ४९ ध्येयाऽऽदित्यादिवद्धयानात् सा शक्तिः पारमेश्वरी । इत्येवं वामसिद्धान्तः संग्रहेण समीरितः ॥ ५० ९। शक्तिपरिणामसिद्धान्तः आदितो वामपक्षे तु तत्सिद्धान्तो निरूप्यते । शाक्तं सामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ५१ शक्तिरेव जगत्कर्त्रीं सा पुनः स्यात्सहस्रशः । समारभ्य पराशक्तेः क्रियाशक्त्यन्तभेदतः ॥ ५२ तद्रूपपरिणामेन जगत्सर्वं चराचरम् । मन्त्रेश्वरादयः सर्वे ततोऽन्ये जीवकोटयः ॥ ५३ वष्कादिशब्दभेदश्च तत्वाद्यर्थभिदा पुनः । ज्ञेयभेदाश्च ज्ञानं च ज्ञापकश्च ततोन्यथा ॥ ५४ यदस्ति सर्वं तच्छक्तिमूर्त्तिरूपं तथा जगत् । शिवरूपं च सा शक्तिर्बहुनोक्तेन किं पुनः ॥ ५५ एवं विज्ञानवान् मूलनवसिद्धान्त (यामलागम) वर्त्मगः ॥ ५६।-1 वैष्णवादिषु बाह्येषु शैवभेदेषु वा पुनः । भैरवादिषु भेदेषु कृतकृत्यः पुरा नरः ॥ ५७ कर्मसाम्यादिसंसिद्धशक्तिपातविशेषतः । वामतन्त्रोक्तमार्गेण सद्गुरोर्लब्धदीक्षया ॥ ५८ चर्यादीनमनुज्ञानात् साधको मुक्तिभाग्भवेत् । इत्येवं वामसिद्धान्तः कथितः सङ्गहादिह ॥ ५९ ९। शैवभेदाः लोकायतोऽथ बौद्धश्चार्हतो मीमांस एव च । मायावादः पाञ्चरात्रं षडेते समया बहिः ॥ ६० शैवं पाशुपतं वामं भैरवं तु महाव्रतम् । कालामुखमिति ख्यातमन्तःसमय षट्ककम् ॥ ६१ शैवभेदं प्रवक्ष्यामि ऐक्यपाषाणवादिनौ । भेदवादी समावादी सङ्करानती चाविकारवान् ॥ ६२ परिणामि चा शैवश्च सिध्दान्ती पर ईरितः । ६३-1 १०। कौलर्मतम्। भैरवस्यापि भेदोऽस्ति यदेवंश्रूयते श्रुतौ । चतुर्विधं दक्षिणं स्यादिति सौम्ये शिवागमे ॥ ६४ तेषु कौलस्तु मत्स्येन्द्रनाथसिद्धादिभिःस्फुटम् । प्रवर्त्तितो न सौम्ये तु मृगेन्द्रे कथितो मतः ॥ ६५ शैवं मन्त्रश्वरं गौणं दिव्यमार्ष गणर्ह्यकम् । योगिनी सिद्धके ॥॥ होता ॥॥ स्यष्टौ विदुर्बुधाः ॥ ६६ तथा मत्स्येन्द्रसिद्धादिमतोऽत्र कौलकः स्मृतः । तत्रार्थाः पञ्चभूतोत्थशरीर भुवनादयः । ६७ ज्ञानकर्मेन्द्रियाण्येव दशधा विषया अपि । पाशास्ते पशवो बद्धा देवादि स्थावरान्तकाः ॥ ६८ ॥॥ स्तु भैरव ॥॥ स्तदुपास्त्या परा ॥॥ चर्यया क्रियया वापि मधुमांसादि सेवया ॥ ६९ योगतो वा त ॥॥ ततः । अतिप्रख्यातिमायाति सर्वलोकैश्च पूजिताः । पश्चाद्भैरवदेवस्य पदं प्राप्य विमुच्यते ॥ ७० पाशाद्याधिपतेरस्य सर्वेषां जगतां प्रभोः । अत्र सिद्धिंगताः सिद्धाः सर्वे ते नाथ संज्ञिताः ॥ ७१ गोरक्षनाथप्रख्या ये योगशास्त्रप्रवर्तकाः । आदिनाथो विरूपाक्षो मत्स्येन्द्रो परिघस्तथा ॥ ७२ नागार्जुनो मेघनाथश्चारङ्गी योगशास्त्रवित् । गोरक्षसिद्धबुद्धश्च न च ते सिद्धयोगिनः ॥ ७३ शापानुग्रहकतारो निराशा भिक्षुकाः सदा । इष्टदाः सेवया पुंसां सिंहनादादिचिन्हिताः ॥ ७४ इत्येवं सङ्ग्रहेणात्र कौलपक्षो निरूपितः । ७५-1 गरुड — दक्षिण — वाम — भूततन्त्राः दृष्टादृष्टार्थसंसिद्धशास्त्रेषु कामिकादिषु । लोकविश्वासहेतोस्तद् दृष्टार्थप्रतिपादनम् ॥ ७६ गारुडं दक्षिणं वामं भूततन्त्रं तथैव च । चतुर्विधानि शास्त्राणि पुरुषाद्युदितानि च ॥ ७७ अधः स्रोतांसि शैवानि मूर्तिभिः पुरुषादिभिः । विज्ञानकेवलैर्रद्रैः प्रेर्यैस्तत्पुरुषादिभिः॥ ७८ प्रवर्तितानि तान्येवं कामिकाद्यनुसारतः । अस्वतन्त्रतयोक्तानि तेषु गारुड उच्यते ॥ ७९ पुरुषब्रह्मरूपोयं पूजनीयो जगत्पतिः । तदुपासनया सिद्ध प्र ॥॥ च्यते ॥ ८० यन्मन्त्रौषधसंसिद्धं चिकित्साजातमुत्तमम् । ८१-1 १२। कालामुखम् अथ कालामुखार्थस्तु सङ्ग्रहेण निगद्यते । स्फाटिकं कुण्डलं चैव रक्तचन्दनलेपनम् ॥ ८२ पुत्रदीप ॥॥ कालामुखस्तथा । इति लक्षणसंयुक्तः सेव्यः कालामुखो मतः ॥ ८३ व्रतं कालामुखं प्रोक्तम् ॥॥ । प्रत्यक्षादीनि मानानि तत्र प्रागुक्तवर्त्मना ॥ ८४ पतिः पशुश्च पाशश्च प्रमेयस्त्रिविधो मतः । पतिः साक्षान्महादेवो रुद्र एव न भैरवः ॥ ८५ रुद्रांशेन विना तस्य न पृथक्त्वेन सभ्भवः । तस्मादेवं महादेवो रुद्रोऽयं मूलविग्रहः ॥ ८६ स एव दक्षिणामूर्तिरूपादिबहुविग्रहः । साक्षात्सदाशिवो नित्यः शिव एव जगत्पतिः ॥ ८७ तद्भेदो बहुधा प्रोक्तस्तत्तत्कृत्यानुसारतः । पशुस्तु त्रिविधो ज्ञेयः प्रागुक्तेनैव वर्त्मना ॥ ८८ पाशं च मलमायादि मायेयं स्याज्जगद् ध्रुवम् । पाशबन्धनिवृत्यर्थं पशुभिः सेव्यते शिवः ॥ ८९ अष्टम्यां च चतुर्दश्यां शिवरात्रिव्रतेन च । सोमवारादिभिर्नित्यमन्यथोपायतः पुनः ॥ ९० व्रतं कालामुखं प्रोक्तं शिवदीक्षापुरःसरम् । शक्तिपातानुसारेण कर्मसाम्येऽपि सम्भवे ॥ ९१ तथानुष्ठानसामर्थ्यादात्मा शुद्धो भवेत्तदा । आत्मा नक्षत्रवद्भाति शिवस्त्वर्क इव स्फुटम् ॥ ९२ तदात्मशिवसंयोगः परमोक्ष इति समृतः । इत्येवं सङ्गहादुक्तो व्रतं कालामुखो मतः ॥ ९३ १३। कापालम् अथ कापालसिद्धान्तः कथ्यते संग्रहादिह । तत्कालामुखसंप्रोक्तमङ्गीकृत्य यथोचितम् ॥ ९४ कापालशैवतन्त्रं तु सेव्यते यत्कपालिभिः । महाश्मशाने संहारे नृत्यमानमहेशवत् ॥ ९५ स्वात्मानं ध्यायमानः सन् सामगानपुरःसरम् । नरकपालहस्तस्तुस भिक्षामटते ततः ॥ ९६ कापालीति हि संप्रोक्तः कापाले साधकोत्तमः । कथं प्रागुक्तशैवस्य कालामुखमतस्य च ॥ ९७ एकदेशमतत्वेन केचिदिच्छन्ति पण्डिताः । पञ्चार्थं च पुराकल्पं शिवगुह्यप्रमाणकम् ॥ ९८ व्यूहमादर्शनं चैव पद्माकरकशैलकम् । नृत्तं चैव सुदुष्प्रापं सिद्धार्थ हि चतुर्दश ॥ ९९ कापालमेवमाख्यातं लाकुलं श्रुणु चानघ । इति दीप्तेन तत्तन्त्राण्युक्तान्यर्थस्त्रिधा मतः ॥ १०० पतिः पशुश्च पाशश्च तत्र रुद्रो जगत्पतिः । महाश्मशाने संहारे नृत्यमानो महेश्वरः॥ १०१ सदाशिव इति ज्ञेयः सर्ववित्सर्वकृत्प्रभुः । आत्मानो बहवो बद्धा ज्ञानमात्रस्वरूपिणः ॥ १०२ ज्ञानक्रियास्वरूपस्तु शिव एको न चापरः । कर्म माया च पाशः स्यादाकाशं तत्वमुच्यते ॥ १०३ काल एवात्र माया च तयोर्भेदो न विद्यते । तेन बन्धनिवृत्त्यर्थं शिवदीक्षापुरःसरम् ॥ १०४ कुर्वन्नित्यादिकं कर्म कापालज्ञानपारगः । अतिवैराग्यसंपन्नः स्तुतिनिन्दापराङ्मुखः ॥ १०५ तथा भिक्षान्नभोक्तायं प्रागुक्तेनैव वर्त्मना । मुक्त एव भवेत्तत्र मुक्तौ शिवसमः पुमान् ॥ १०६ न तु नक्षत्रवज्जीवो भानुवद्राजते यतः । मुक्तो शिवगुणावेशाद्विभेदो जायते किल ॥ १०७ सर्वज्ञतादिधर्मो हि मुक्तय शिववत्पुनः । इत्येवं संग्रहादेव कापालः कतितो मतः ॥ १०८ १४। महाव्रतम् अथ महाव्रतः शैवः कथ्यते लेशत स्फुटम् । कापालागमसंप्रोक्तमङ्गीकृत्य यथोचितम् ॥ १०९ कुण्डिका कुण्डलं चैव उरगश्च शिखामणिः । केशयज्ञोपवीतं च पञ्च मुद्रा महाव्रते ॥ ११० इति लक्षणसंयुक्तः उच्यते स महाव्रतः । प्रत्यक्षादीनि मानानि प्रागुक्तान्येव तानि वै ॥ १११ तथा मानेषु सर्वेषु श्रेष्ठो महाव्रतः स्मृतः । पतिः पशुश्च पाशश्च तदर्थःत्रिविधो मतः ॥ ११२ पतिःसदाशिवो ज्ञेयः सर्ववित्सर्वकृद्विभुः । अनादिनिरमलो रुद्रः सर्वकारणकारणः ॥ ११३ आत्मानो बहवो ज्ञेया ज्ञानमात्रसवरूपिणः । पतयुरेव क्रियाशक्तिरनान्येषामातमनामिह ॥ ११४ पाशस्तु कर्म माया च नत्वाणवमलः स्मृतः । शक्तिपाते तु तत्तन्त्रशिवदीक्षापुरःसरम् ॥ ११५ ज्ञानचर्याद्यनुष्ठानान्मुक्तो भवति मानवः । लिङ्गधारी सदा स्वस्य मस्तके कन्धरेऽथवा ॥ ११६ नाभेरूध्र्वं यथाशास्त्रं स्थानेषु हृदयादिषु । लिङ्गस्य धारणान्मुक्तिः किं पुनः पूजया नृणाम् ॥ ११७ यथा शिवे तथा भक्तिः गुरौ वै जङ्गमेषु च । तथापि जङ्गमे भक्तिर्विशेष इति कथ्यते ॥ ११८ महाव्रताख्यशास्त्रोक्तनित्यकर्मादितत्पराः । एकेन जन्मना मुक्तिं प्रयान्तीह महाव्रताः ॥ ११९ इति महाव्रतः सोऽयं संग्रहेण प्रदर्शितः । १२०-1 १५। पाशुपतम्-गुणसंक्रान्तम् अथ पाशुपतं वक्ष्ये गुणसंक्रान्तवादिनाम् । भस्म मेध्यं चोत्तरीयं विष्ठरं पुस्तकं तथा ॥ १२१ मेखलोपरि कौपीनमेवं पाशुपतं स्मृतम् । इति लक्षणसंयुक्तैः सेव्यते यो नरोत्तमैः ॥ १२२ प्रत्यक्षादीनि मानानि प्रागुक्तानीह तानि वै । तत्र पाशुपतः श्रेष्ठः आगमस्तु सदोच्यते ॥ १२३ प्राजापत्यं पाशुपतं प्रबुद्धं पद्मसंहिता । वासिष्ठं काश्यपं कल्पं वाराहं भार्गवोत्तरम् ॥ १२४ प्रफुल्लं वासवं चैव वायुप्रोक्तं तथैव च । वारुणं बार्हस्पत्यं च परमेशं च षोडश ॥ १२५ मतं पाशुपतं प्रोक्तमिति दीप्तागमे श्रुतम् । पतिः पशुश्च पाशश्च तदर्थस्त्रिविधो मतः ॥ १२६ ॥॥॥॥ सर्वे ते व्यापकाः स्मृताः । मायातः कर्मतश्चैव बद्धाः सर्वेश्वराज्ञया ॥ १२७ कार्यकारणतत्वोत्थ - बुद्धिकर्मानुसारतः । कुतश्चित्कारणातत्र वैराग्यं जायते यदा ॥ १२८ तदा पाशुपतप्रोक्तशिवदीक्षापुरःसरम् । ज्ञानचर्याद्यनुष्ठानान्मुक्तः शिवसमो भवेत् ॥ १२९ किञ्चिज्ज्ञत्वादिधर्मस्य निवृत्त्या मुक्तिकालतः । सर्वज्ञत्वादिधर्माणां संभवात् तुल्यता स्फुटा ॥ १३० कैवल्यं शिवसाम्यत्वात्स्यान्मुक्तिर्निर्मलात्मनः । ईश्वरात्तद्गुणाः सर्वे संक्रमन्ते तदात्मनि ॥ १३१ पुण्यपूरुषसंपर्कात् पुण्यानीव ततोऽन्यतः। क्षमावति त्वनाक्रोशात्पुण्यवद्भिः सहस्थितेः ॥ १३२ पुण्यं संक्रमते पुंसामित्यादि वचनात्स्फुटम् । तथा च शिववन्मुक्ताः सर्वज्ञात्वादिधर्मिणः ॥ १३३ अपि कृत्यं न कुर्वन्ति स्वार्थनिष्ठा हि ते यतः । इत्येवं गुणसंक्रान्तः साम्यपक्षो निरूपितः ॥ १३४ १६। प्रवाहनित्येशवादम् अथ तद्भेदवादः प्रवाहनित्येश्वराभिधः । कथ्यते पूर्वतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ १३५ एकात्मवादिरीत्यात्र मन्यन्ते ते शिवात्मनोः । अन्यत्पाशुपतप्रोक्तवर्त्मना तेन संमतः। १३६ मुक्तौ तु शिव एवायं मुक्तः कृत्यं करोति सः । स्वाधिकारादुपरतो न करोति शिवो विभुः ॥ १३७ ईश्वरात्तद्गुणानां तु संक्रान्तौ निर्मलात्मनि । तस्य कार्याण्यसौ बुध्वा जगत्सृष्टयादि कृत्यतः ॥ १३८ स्ववत्संसारनिर्वाहे पुत्रं हष्ट्वा महामतिम् । स्वकृत्यादुपरक्ताक्षः सन्यासी स्यात्पिता यथा । १३९ इति प्रवाहनित्येशवादो लेशात्प्रदर्शितः इति । १४०-1 १७। श्रौतपाशुपतम्। श्रौत पाशुरते तत्र प्रत्यक्षादि प्रमाणतः । ज्ञेयोऽर्थस्त्रिविधो मुक्तिरुत्पत्तिसमता नृणाम् । १४१ इत्ययं किं प्रतिपादयति ? वैदिकपाशुपतमतं दर्शयति । अत्र प्रागुक्तेषु शैवेषु श्रौतपाशुपतो नाम श्रुत्यनुसारेण शिवायै शिवेनोक्तः उपमन्य्वादिप्रवर्तित इति ज्ञेयम् । तदुक्तं च - श्रौतपाशुपतो नाम शतकोटिप्रविस्तरः । परमार्थप्रदः श्रेष्ठो वायव्यांहि तथा वचः ॥ १४२ शैवागमोऽपि द्विविधः श्रौतोऽश्रौतश्च स स्मृतः । श्रुतिसारमयः श्रौतः स्वतन्त्र इतरो मतः ॥ १४३ स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः । कामिकादिसमाख्याभिः सिद्धः सिद्धान्तसंज्ञितः ॥ १४४ श्रुतिसारमयोऽन्यस्तु शतकोटिप्रविस्तरः । परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ १४५ एतत्पाशुपतं श्रौतमथर्वशिरसि स्थितम् । तत्रोक्तः परमो धर्मश्चर्याद्यैस्तु चतुर्विधः ॥ १४६ तथा पाशुपतो भक्तः शिवं प्रत्यक्षयेद् दृढम् । तस्माच्छ्रेष्ठमनुष्टानं योगे पाशुपते मते ॥ १४७ श्रीकण्ठेन शिवेनोक्तः शिवायै स शिवागमः । शिवाश्रितानां सर्वेषां श्रेयसामेकसाधनम् ॥ १४८ युगावर्तेषु सर्वेषु योगाचार्यस्वरूपिणा । तत्र तत्रावतीर्णेन शिवेनैव प्रवर्यते ॥ १४९ संक्षिप्यास्य प्रवक्तारः चत्वारः परमर्षयः । रुरूर्दधीचोऽगस्त्यश्च उपमन्युर्महायशाः । १५० ते च पाशुपताः ज्ञेयाः संहिताभ्यासवर्तकाः । तत्सन्ततीया गुरवः शतशोऽथ सहस्रशः ॥ १५१ अथात्र वैदिकपाशुपते प्रत्यक्षादिप्रमाणसिद्धानां पदार्थानां त्रैविध्यकथनं वेदान्तवाक्यानां विशिष्टाद्वैतार्थ कृत्वा कामिकाद्युतवत्सर्वेषां पदार्थानां पतिपशुपाशेष्वेव संग्रहाभ्युपगमात् । तदुक्तंच - शैववैदिकसिद्धानि यानि नामानि तानि वै । प्रत्यक्षमनुमानाख्यमुपमानागमौ तथा ॥ १५२ अर्थापत्यादिमानानि श्रौतपाशुपते मते । प्रामाण्यं स्वत एव स्यात्तत्र वैदिकशैववत् ॥ १५३ अथ तन्मानसंसिद्धं वस्तु च त्रिविधं स्मृतम् । अजडश्च जडश्चैव नियन्तृ च तयोरपि ॥ १५४ पशुः पाशः पतिश्चैव कथ्यते त्रितयं क्रमात् । अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ १५५ तदेवं त्रितयं भूयः कथ्यते तत्ववादिभिः । अक्षरं पशुरित्युक्तं क्षरं पाश उदाहृतः ॥ १५६ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते । इति तल्लक्षणोक्त्या च तथैवं हि श्रुतं पुनः ॥ १५७ वायुः — प्रकृतिः क्षरमित्युक्ता पुरुषोऽक्षरमुच्यते । द्वाविमौ प्रेरयत्यन्यः परमः परमेश्वरः ॥ १५८ मुनयः — ॥॥॥। पुरुषो मतः । अनयोः केन संबन्धः को वा प्रेरक ईश्वरः ॥ १५९ वायुः — माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः । सम्बन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १६० मुनयः — मलः किदृक् कुतो ह्यस्य शिवत्वं च शिवः कुतः ॥ १६१ वायुः — माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः । मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः ॥ १६२ मुनयः — आवृणोति कथं ह्योषा व्यापिनं केन हेतुना । किमावृत्तिः तस्य पुंसः केन सर्व निवर्तते ॥ १६३ वायुः — आवृतिः व्यापितोऽपिस्यात् व्यापि यस्मात् कलादपि । हेतुः कर्मैव भोगार्थो निवर्तेत मलक्षयात् ॥ १६४ मुनयः — कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् । तत्किमादि किमन्तं च किं फलं वा किमाश्रयम् ॥ १६५ तस्मै भोगश्च भोग्यं च किं वा तद्भोग्यसाधकम् । मलक्षयस्य हेतुः कः कीदृक् क्षीणमलः पुमान् ॥ १६६ वायुः — कला विद्या च रागश्च कालो नियतिरेव च । कलाद्याश्च समाख्याता यैर्युक्तः पुरुषो भवेत् ॥ १६७ पुण्यपापात्मकं कर्म सुखदुःखफलं तु तत् । अनादिफलभोगान्तमज्ञानार्थसमाश्रयम् ॥ १६८ भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते । बाह्यान्तःकरणेद्वारं शरीरं भोगसाधकम् ॥ १६९ भावातिशयलभ्येन प्रसादेन मलक्षयः । क्षीणे चात्ममले तस्मिन्पुमान् शिवसमो भवेत् ॥ १७० मुनयः — कलादि पञ्च तत्वानां किं कर्म पृथगुच्यते। भोक्तेति पुरुषश्चोति येनात्मा व्यपदिश्यते ॥ १७१ किमात्मकं तदव्यक्त केनाकारेण भुज्यते । किं तस्य कारणं भुक्तौ शरीरं च किमुच्यते ॥ १७२ वायुः — दृक् क्रिया व्यष्टिका विद्या कलारागप्रवर्तिका । कालोऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ १७३ अव्यक्तं कारणं यत्तत् त्रिगुणप्रभवाप्ययम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्वचिन्तकाः ॥ १७४ कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् । सुखदुःख विमोहात्मा भिद्यते गुणतस्त्रिधा ॥ १७५ सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । प्रकृतौ सूक्ष्मरूपेण तिले तैलमिवस्थिताः ॥ १७६ सुखं च सुखहेतुश्च समासात्सात्विकं स्मृतम् । तामसं तद्विपर्यासात्तावुभौ हेतुराजसम् ॥ १७७ सात्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः । मध्यमानुगतिर्या सा राजसी परिपठ्यते ॥ १७८ तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च । ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ १७९ प्राकृतं मानसं बुद्धिरहङ्कारो गुणत्रयम् । समासादेवमव्यक्त सविकारमुदाहृतम् ॥ १८० तत्कारणदशापन्मव्यक्तमिह कथ्यते । व्यक्तं कार्यदशापन्नं शरीरादि घटादि च ॥ १८१ यथा घटादिकं कार्यं मृदादि कारणं स्मृतम् । शरीरादि तथाव्यक्तमव्यक्तं नातिभिद्यते ॥ १८२ तस्मादव्यक्तमेवैकं कारणं करणानि च । शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ १८३ मुनयः — बुद्धीन्द्रियशरीरेभ्यो वस्तुनोऽपि कुतो भिदा ॥ १८४B वायुः — बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्तो विभुर्महान् । तथा तद्वद्विदात्मेति हेतुस्तत्र सुदुर्गमः ॥ १८५ बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते । स्मृतेरनियतज्ञानाद्यथा वै देहवेदनात् ॥ १८६ अतः स्मार्तानुभूतानामशेषज्ञेयगोचरः । अन्तर्यामीति वेदेषु वेदान्तेषु च गीयते ॥ १८७ सर्वतन्त्रः स सर्वत्र व्याप्य तिष्ठति शाश्वतः । तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ १८८ न चायं चक्षुषा ग्राहयो न परैरिन्द्रियैरपि । मनसैव प्रदीप्तेन महानात्मावसीयते ॥ १८९ न च स्त्री न पुमानेष नैव चापि नपुंसकः । नैवोध्र्वंनापि तिर्यक्च नाधस्ताच्च कुतश्चन ॥ १९० अशरीरः शरीरेषु चलेषु स्थाणुरव्ययः । सदा पश्यति तद्धीरो नरः प्रत्यवमर्शनात् ॥ १९१ किमत्र बहुनोक्तैन पुरुषो देहतः पृथक् । अपृथक् ये तु पश्यन्ति न सम्यक् तेषु दर्शनम् ॥ १९२ यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् । अशुद्धमवश दुःखमध्रुवं च न विद्यते ॥ १९३ विवदाम्बुजभूतेन पुरुषस्तेन संगतः ? । सुखी दुःखी विमूढश्च भवति स्वेन कर्मणा ॥ १९४ अद्भिरासेवितं क्षेत्रं जनयत्यञ्जसा यथा । अज्ञानाप्यायितं कर्म देह जनयते तथा ॥ १९५ अत्यन्तमसुखा वासा रुग्णाश्चैकान्तमृत्यवः । अनागता अतीताश्च तनवोऽस्य सहस्रशः ॥ १९६ मृत्या गत्या च शीर्णेषु शरीरेषु शरीरिणाम्। अत्यन्तवसतिः कापि न केनापि च लभ्यते ॥ १९७ छादितश्च वियुक्तश्च शरीरैरेष लक्ष्यते । चन्द्रविम्बवदाकारे तरलैः अत्रसंचयैः ॥ १९८ अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ १९९B अष्टपादपरिक्षेपेष्वक्षमुद्रेव लक्ष्यते । नैवास्य विहितः कश्चिन्नासौ भवति कस्यचित् ॥ २०० पथि सङ्गम एवायं दारैरन्यैश्च बन्धुभिः ॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ २०१ समेत्य च व्यपेयातां तद्वत्भूतसमागमः । स पश्यति शरीरं तच्छरीरं नैव पश्यति ॥ २०२ तौपश्यति परः कश्चित्परं तौ नैव पश्यतः । ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ॥ २०३ पशूनामेव सर्वेषां प्रोक्तमेतन्निबोधत। य एषो बध्यते पाशैः सुखदुःखाशनः पशुः ॥ २०४ क्रिया साधनभूतोऽयमीश्वरस्येति सूरयः । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ २०५ ईश्वरप्रेरितो गच्छेदभ्रं वा स्वर्गमेव वा । २०६-1 मुनयः — योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः । आभ्यां विलक्षणः कश्चित्कथमस्त्यनयोः पतिः ॥ २०७ अस्ति कश्चिदपर्यन्तरमणीयगुणान्वितः । अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ २०८ औदार्य वीर्य गाम्भीर्य स्वभावकरुणालयः । पतिर्विश्वस्य निर्माता पशुपाशविलक्षणः ॥ २०९ अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत्। अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ २१० प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् । न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ २११ जगच्च तत्कर्त्रपेक्षं कार्यं सावयवं यतः ॥ २१२-1 तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः । पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ २१३ अयथाकरणज्ञानादण्डस्य गमनं यथा । आत्मानं च पृथक्कृत्वा प्रेरितारं तथा पृथक् ॥ २१४ असौ जुषस्ततस्तेन ह्यमृतत्वाय कल्पते । पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति यदन्तरम् ॥ २१५ ब्रह्मवित्तद्विदित्त्वैवं योनेर्मुक्तो भविष्यति । संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ २१६ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः । भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् ॥ २१७ नातः परं विजानद्भिः वेदितव्यं हि किञ्चन । तिलेषु वा यथा तैलं दन्धि वा सर्पिषं यथा ॥ २१८ यथाऽऽपः स्रोतसा व्याप्ता यथाऽरण्ये हुताशनः । एवं महात्मनात्मानमात्मन्यपि विलक्षणम् ॥ २१९ सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति । य एको जालवानीश ईशिनीभि स्वशक्तिभिः ॥ २२० सर्वानिमान्वशे कृत्वा एक एव स ईशते । एक एव तदा रुद्रो न द्वितीयश्च कश्चन ॥ २२१ संसृज्य विश्वं भुवनं गोप्ता संचुकोच सः । विश्वतश्चक्षुरेवायं उतायं विश्वतो मुखः ॥ २२२ तथैव विश्वतो बाहुर्विश्वतः पादसम्युतः । द्यावाभूमी च जनयन् देव एकः पुरातनः ॥ २२३ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा । हिरण्यगर्भं देवानां प्रथमं तु नयेदयम् ॥ २२४ विश्वस्मादधिको रुद्रो महर्षिरिति शुश्रुम । वेदाहमेतं पुरुषं महान्तममृते ध्रुवम् ॥ २२५ आदित्यवर्णं तमसः परस्तात्तत्संज्ञितं विभुम् । यस्मान्नास्ति परं किञ्चिदपरं परमार्थतः ॥ २२६ नानीयो नास्ति तद्ज्ज्ययो तेन पूर्णमिदं जगत् । सदैको वृक्षवत्स्तब्धः केवलो दिवि तिष्ठति ॥ २२७ संगल्पप्रभवं तस्य cअराcअमिदं जगत् । सर्वाननशिरोग्रीवः सर्वभूतगुणाशयः ॥ २२८ सर्वव्यापी च भगवान् तस्मात्सर्वगतः शिवः । सर्वतः पाणिपादो यः सर्वतोऽक्षिशिरोमुखः ॥ २२९ सर्वतः श्रुतिमानेव सर्वमाश्रित्य तिष्ठति । सर्वेन्द्रियगुणाभावः सर्वेन्द्रियविवर्जितः ॥ २३० सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् । अचक्षुरपि यः पश्यत्यकर्णोऽपि श्रृणोति यः ॥ २३१ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् । अणोरणीयान्महतो महीयानयमव्ययः ॥ २३२ गुहायां निहितश्चापि जन्तोरस्य महेश्वरः । सतं च पुरुषं व्याप्य महिमातिशयान्वितम् ॥ २३३ धातुप्रसादादीशानं वीतशोकः प्रपश्यति । वेदाहमेतमजरं पुराणं सर्वगं विभुम् ॥ २३४ निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः । एकानेकविभिन्नात्मा बहुधा शक्तियोगतः ॥ २३५ विदधाति विहत्यान्ते विश्वमादौ महेश्वरः । विश्वधात्री त्वजारव्याता वी ॥॥ च प्रकृतिः समुता ॥ २३६ तामजां लोहितां कृष्णां शुक्लां कृष्णां तमः पराम् । ॥॥ प्रमाणं स विरूपिणम् ॥ २३७ तामेकः सेवतेऽन्यस्तु भुक्तभोगां जहाति च । द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ २३८ एकोऽत्ति पिप्पलं स्वादु परोऽनश्नन् प्रपश्यति । वृक्षेऽस्मिन् पुरुषो मग्नः मुह्यमानस्तु शोचति ॥ २३९ जुष्टमन्यं यदा पश्येदीशं परमकारणम् । तदास्य महिमानं च वीतशोकः सुखी भवेत् ॥ २४० तपांसि यज्ञाः क्रतवो यद्भूतं भव्यमेव हि । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ २४१ तस्यास्त्वधश्चरैरेव व्याप्तं सर्वमिदं जगत् । सूक्ष्मातिसूक्ष्ममीशानं कलिलस्यापि मध्यमम् ॥ २४२ स्रष्टारमपि विश्वस्याधिष्ठितारं च कस्य तु । विश्वमेवेश्वरं ज्ञात्वा शान्तिमत्यन्तमृच्छति ॥ २४३ स एव कालो गोप्ता च विश्वस्याधिपतिः पतिः । तं विश्वाधिपति ज्ञात्वा मृत्युपाशाद्विमुच्यते ॥ २४४ घृतात्परं मध्यमिव सूक्ष्मं ज्ञात्वाऽधिपं शिवम् । सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥२४५ एष एव परो देवो विश्वकर्मा महेश्वरः । हृदये सन्निविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ २४६ यदा तमस्तन्न दिवि न रात्रिर्न सदप्यसत्। केवलः शिव एवैकः यतः प्रज्ञा पुरातनी ॥ २४७ नैनमूध्र्व च तिर्यक् च नमध्ये परिजग्रमत् । न तस्य प्रतिमा चास्ति तस्य नाम महद्याशः ॥ २४८ अजातमृतमेवैकं बुध्वा जन्मनि भीरवः । रुद्रस्यास्य प्रपद्यन्ते मोक्षार्थं दक्षिणं मुखम् ॥ २४९ द्वे अक्षरे ब्रह्म परे अनन्ते समुदाहृते ॥ २५०-1 विद्याऽविद्य समाख्याते निहिते यत्र गूढवत् । अक्षरं विद्याह्यमृतं विद्यति परिकीर्त्यते ? ॥ २५१ उभे ते ईशते यस्तु सोऽन्यः खलु महेश्वरः । एकैकं बहुधा बीजं विकुर्वनेव देवपः ॥ २५२ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रजापतीन् । दिश ऊर्ध्वमधस्तिर्यक् वासयन् भ्राजते स्वयम् ॥ २५३ यो हि स्व्भावनप्येको वरेणस्यस्त्वधितिष्ठति । स्वभावाद्वाचिकान् सर्वान् वाच्यांश्च परिणामयन् ॥ २५४ गुणांश्च भोक्तृभोग्यत्वे तद्विश्वमधितिष्ठति । एतद्वै गुह्योपनिषद् गूढं ब्रह्म परात्परम् ॥ २५५ ब्रह्मयोनि जगत्पूर्वं विदुर्देवा महर्षयः । भावग्राह्यमनीडाख्यं भासि भावकरं शिवम् ॥ २५६ कलासर्गान्त्रं देवं ये विदुस्ते महर्षयः । स्वभावमेके मन्यन्ते कालमन्ये विमोहिताः ॥ २५७ देवस्य महिमा ह्योष येनेदं भ्राम्यते जगत् । येनेदं वर्तते नित्यं तथा कालात्मको।पि यः ॥ २५८ तेन गीतमिदं कर्म भूतैः सह विवर्तते । स्वेनैव भूयसः कृत्त्वे विनिवर्त्य च भूरिशः ॥ २५९ तत्त्वस्य सह तत्वेन योगं चापि नियोजयेत् । तेषामेवावकाळः स्यात् कृतस्यापि च कर्मणः ॥ २६० स एव देवः संयोक्ता तमिद्धं भोक्तृभोग्ययोः ॥ २६१-1 परस्त्रिकालादधिकः स एव परमेश्वरः । तं विश्वरूपमभवं भवरूपं प्रजापतिम् ॥ २६२ देवदेवं जगत्पूर्वं स्वचित्तस्थमुपास्महे । कार्यादिभ्यः परो यस्मात् प्रपञ्चः परिवर्तते ॥ २६३ धर्मावहं पापनुदं भगेशं विश्वधाम च । तमीश्वराणां परमं देवतानां च दैवतम् ॥ २६४ पतिं पतीनां सर्वेषां विदाम भुवनेश्वरम् । देवदेवं जगत्पूर्वं स्वचित्तस्थमुपास्महे ॥ २६५ न तस्य विद्यते कार्यं कारणं च न विद्यते । न तत्समो नाधिकश्च क्वचिज्जगत्ति दृश्यते ॥ २६६ परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता । ज्ञानमिच्छा क्रिया चैव तेन विश्वमिदं कृतम् ॥ २६७ न तस्यास्ति पतिः कश्चिन्नैव लिङ्गे च शीतला ? ॥ २६८-1 कारणं कारणानां च स तेषामधिपाधिपः । न चास्य जनिता कश्चिन्नैव जन्म कुतश्चन ॥ २६९ न जन्म हेतवस्तद्वन्मलमायादि संज्ञकाः। स एकः सर्वभूतेषु गूढो व्याप्तश्च सर्वतः ॥ २७० सर्वभूतान्तरात्मा च कर्माध्यक्षः स कथ्यते । सर्वभूताधिवासश्च साक्षी वेत्ता च निर्गुणः ॥ २७१ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् । समासेन च सर्वाणि करोति च यथोचितम् ॥ २७२ तमेवात्मनि तिष्ठन्तं ये पश्यन्ति मुमुक्षवः। तेषामेव सुखं नित्यं नेतरेषां महात्मनाम् ॥ २७३ नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः । एको बहूना चाकामः कामानेकान् प्रयच्छत ॥ २७४ सांख्ययोगादिगम्यं तत्कारणं जगतः परम् । ज्ञात्वा देवं पशुः पाशैः सर्वैरपि विमुच्यते ॥ २७५ विश्वकृद्विश्ववित्स्वात्मा योनिज्ञः कालविगुणी । प्रधानक्षेत्रविन्निर्गुणेशः पाशविमोचकः ॥ २७६ ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् । यो वेद तमहं बुध्वा स्वात्मबुद्धिप्रसादतः ॥ २७७ मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् । निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ २७८ अमृतस्य परंसेतुं दग्धेन्धनमिवानलम् । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ २७९ तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति । तपः प्रसादाद्देवस्य प्रसादाच्च महर्षयः ॥ २८० विश्रमोचितमात्मानं पवित्र परपावनम् । वेदान्तपरमं गुह्यं पुरा कल्पप्रचोदितम् ॥ २८१ ब्रह्मणो वदनालब्धं मयेदं भाग्यगौरवात् । इत्येवं त्रिपदार्थास्ते कथिताः सङ्गहात्पुनः ॥ २८२ कथ्यन्ते पञ्चधा पाशा मलमायाद्वयं पुनः ॥ २८३-1 अनुग्रहतिरोधायी शक्तिः पञ्चविधा तथा । तत्र मायाद्वयोद्धूतं षट्त्रिंशत्तत्वजातकम् ॥ २८४ पञ्च भूतानि तन्मात्रपञ्चकर्मेन्द्रियाणि च । ज्ञानकर्मविभागेन पञ्च पञ्च विभागशः ॥ २८५ त्वगादि धातवः सप्त पञ्च प्राणादिवायवः । मनश्चाहंकृतिः रव्यातिर्गुणाश्च प्रकृतिः पुमान् ॥ २८६ रागो विद्या कला चेति नियतिः काल एव च । माया च शुद्धविद्या च महेशःश्च सदाशिवः ॥ २८७ शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः । महामाया च मायेति प्रकृतिस्त्रिगुणेति च ॥ २८८ त्रिविधा कार्यभेदेन सा प्रभिन्ना षडध्वनः । स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ २८९ इत्यादि वचनादेवं पशुभेदश्च कथ्यते । सकलाश्च तथा सर्वे विमलाः प्रलयाकलाः ॥ २९० मलैकमात्रसम्बन्धास्ते विज्ञानकला मताः । तदवान्तरभेदेन भिद्यते बहुधा पुनः ॥ २९१ एतद्विविधपाशानां पशूनां पतिरीश्वरः । स्थानभोगाधिकारादिवशेन बहुधा पुनः ॥ २९२ भिद्यते तत्तदात्मानुग्रहेणैव तथा वचः । पक्वात्मानः क्रमाद्भिन्नाः एकद्वित्रिमलाः क्रमात् ॥ २९३ एक द्वित्रि मलान्सर्वान् शिव एकोऽधितिष्ठति । अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ २९४ अरुद्रात्मकमप्येवं रुद्रैर्जगदधिष्ठितम् । अण्वन्ता हि महाभूमिः शतरूद्राद्यधिष्ठिता ॥ २९५ मायन्तमन्तरिक्षं तु अमरेशादिभिः क्रमात् । अङ्गुष्ठमात्रपर्यन्तः समन्तात्सन्ततं तथा ॥ २९६ महामायावसाना द्यौर्वामाद्यैर्भुवनाधिपैः । अनाश्रितान्तैरध्वान्तवर्तिभिः समधिष्ठिता ॥ २९७ इत्येवं तदधिष्ठानभेदः स कथितः पुनः । शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ २९८ न किञ्चिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ २९९-1 स्वभावादेष पर्याप्तः परानुग्रहकर्मणि । अन्यथान्यत्स्वभावेन न किमप्यनुगृह्यते ॥ ३०० परं सर्वमनुग्राह्यं पशुपाशादिकं जगत् । परस्यानुग्रहार्थं नु पत्युराज्ञासमन्वयः ॥ ३०१ यत्तत्पुनरनुग्राह्यं परतन्त्रं तदिष्यते । अनुग्रहादृते नास्य भुक्तिमुक्ती त्वनन्वयात् ॥ ३०२ मूर्त्यात्मानीऽप्यनुग्राह्याः शिवज्ञाननिवर्तनात् । अज्ञानाधिष्ठितं किञ्चिदिह शम्भोर्न विद्यते ॥ ३०३ येनोपलक्ष्यतेऽस्माभिः सकलेनापि निष्कलः । स मूर्त्यात्मा शिवस्यैव मूर्तिरित्युपचर्यते ॥ ३०४ न हत्यसौ निष्कलः साक्षात् शिवः परमकारणः । स्वाकारेणानुभावेन तेनाप्यनुपलक्षितः ॥ ३०५ प्रमाणगम्यतामात्रं तत्सद्भावोपपादकम् । न तावताऽनपेक्षा धीरुपलभ्येत लक्षणम् ॥ ३०६ यथा काष्ठाद्यानारूढी न वन्हिलुपलभ्यते । एवं शिवोपि मूर्त्यात्मन्यनारूढ इति च स्थितिः ॥ ३०७ यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् । नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ३०८ तत एव हि पूजार्थं मूर्त्यात्मपरिकल्पनम् । मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ३०९ लिङ्गादावर्पितं द्रव्यमाचार्येऽपि विशेषतः । तत्तन्मूर्त्यात्मभावेन शिवोऽस्माभिरुपास्यते ॥ ३१० यथानुगृह्यते सोऽपि मूर्त्यात्मा परमात्मना । तथा मूर्त्याम् ॥॥ न परतो वयम् ॥ ३११ लोकानुग्रहणायैव शिवेन परमेष्ठिना । सदाशिवादयः सर्वे मूर्त्यात्मानोऽप्यधिष्ठिताः ॥ ३१२ तेऽपि मूर्त्यात्मभावेन लब्ध्वा स्वयमनुग्रहम् । कुरुते चानुगृह्नन्ति शिवेन समधिष्ठिताः ॥ ३१३ आत्मनामेव भोगाय मोक्षाय च विशेषतः । मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ ३१४ तथापि तेषामेवैते न शिवस्य तु सर्वथा । अग्नावपि समाविष्टे ॥। ख कालतः ॥ ३१५ इति नाग्निरसौ तत्र ताम्रसंसर्गकारणात् । नाग्नेरशुचिसंसर्गादशुचित्वमुपेयते ॥ ३१६ अशुचेस्त्वग्निसंयोगाच्छुचित्वमुपजायते । एवं शोध्यात्मसंसर्गान्नैवाशुद्धः शिवो भवेत् ॥ ३१७ शिवसंसर्गतस्त्वेष शोध्यात्मैव विशुद्धयति । अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः ॥ ३१८ मूर्त्यात्मस्वेवमैश्वर्यमीशस्यैव न चात्मनाम् । नहि काष्ठो ज्यलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ ३१९ काष्ठस्याङ्गारसंसक्तिरेवमत्रापि योज्यताम् । तत एव जगाच्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ३२० शिवावेशवशादेव शिवत्वमुपचर्यते । इत्यतो बहुधा भिन्नः शिवोऽनुग्रहकारणात् ॥ ३२१ तथा चैकात्मवादे तु श्रृऊयते हि तथा वचः । आत्मसंज्ञः शिवः शुद्धः एक एवाद्वयः सदा ॥ ३२२ इत्यतो द्वैतसिद्धान्तनिर्णयः स निरस्यते । अद्वैतमागमशिरोभिरुपासनायामुक्तं तवेति परमार्थतया न वाच्यम् ॥ भेदः स्फुटो गरुडमान्त्रिकयोरलीकं तदात्म्यभावनमथापि विषं प्रमार्ष्टिं ॥ ३२३ इति वेदान्तवाक्यानामावेशाद्वैत ईरितः । कृतार्थेन विरोधः स्यात् यथा पूर्वमुदाहृतम् ॥ ३२४ स एकः सर्वभूतेषु गूढो व्याप्तश्च सर्वतः । सर्वभूतान्तरात्मा च कर्माध्यक्षः स कथ्यते ॥ ३२५ तत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि । शिवावेशवशादेव शिवत्वमुपश्चर्यते ॥ ३२६ इत्यतोऽत्र समावेशसाम्यमुक्तिश्च निश्चिता ॥ ३२७-1 अथ कृतचर्याक्रियायोगनिष्ठानां कर्मसाम्यमलपरिपाकवशात् शक्तिनिपातयुक्तानां साधकानामेव मुक्तिप्रतिपादनमितरेषां शिवज्ञानानुदयात् न मुक्तेः सम्भव इति । तदुक्तं च — शिवचर्यादिसंपत्या शक्तिपातापवित्रितः । योग्यो निर्वाणदीक्षायां ततोऽनुष्ठानतत्परः ॥ ३२८ मुक्त एव भवेन्नान्ये वायव्यां हि तथा वचः । शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ॥ ३२९ अन्यथा तु तथा कृष्ण तत्र शुद्धिर्नजायते । न विद्या न शिवाचारो विमुक्तिर्न च सिद्धयति ॥ ३३० तस्मादङ्गानि संवीक्ष्य शक्तिपातस्य भूरिशः । ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् ॥ ३३१ यो तथा कुरुते मोहात् स विनश्यति दुर्मतिः । तस्मात् सर्वप्रयत्नेन गुरुः शिष्यान् परीक्षयेत् ॥ ३३२ लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः । सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ ३३३ आनन्दबोधयोर्योगमन्तःकरणविक्रिया । यया स्यात्कम्परोमाञ्cअस्वरनेत्राङ्गविक्रिया ॥ ३३४ शिष्यं तं लक्षणैरेभिर्गुरुः कुर्यात्परीक्षणम् । ततो दीक्षां गुरुः कुर्यात्सर्वपापविनाशिनीम् ॥ ३३५ दीपते येन विज्ञानं क्षीयते पाशबन्धनम् । तस्मात्संस्कार एवेदं दीक्षेत्यपि च कथ्यते ॥ ३३६ शाम्भवी चैव शाक्तो च मान्त्री चैव शिवागमे । दीक्षोपदिश्यते ज्ञेया शिवेन परमात्मना ॥ ३३७ गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि । सच्यः सञ्जायते प्रज्ञा पाशोपक्षयकारिणी ॥ ३३८ सा दीक्षा शाम्भवी प्रोता सा पुनर्भिद्यते द्विधा । तीव्र तीव्रतरा चेति पाशोपक्षयभेदतः ॥ ३३९ यया स्यान्निर्वृतिः सद्यः सेयं तीव्रतरा मता । तीव्रातु जीवितान्तं या पुंसां पाशविमोचिका ॥ ३४० शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु । गुरुणा योगमार्गेण शाक्ती या क्रियते मता ॥ ३४१ मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका । मन्दा मन्दतरा लेशात् कर्तव्या गुरुणा बहिः ॥ ३४२ तदेवं दीक्षितस्यात्र शैवकर्म च विश्रुतम् । नाशिवः शिवमभ्यासेन्नाशिवः शिवमर्चयेत् ॥ ३४३ नाशिवस्तु शिवं ध्यायेन्नाशिवः शिवमाप्नुयात् । तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ३४४ शिवोऽहमिति सञ्चिन्त्य शैवकर्मसमाचरेत् । कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुच्यते ॥ ३४५ ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः । कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ ३४६ जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा । ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तराः ॥ ३४७ कर्मयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः । भोगकामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ ३४८ अकामो रुद्रभावेन भोगान्भुक्त्वा ततश्च्युतः । तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ ३४९ तपस्वीति ततस्तस्मिन्भोगान्भुङ्क्त्वा ततश्च्युतः । जपध्यानरतो भूत्वा जायते भुविमानवः ॥ ३५० जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह । ज्ञानं लब्ध्वाऽचिरादेव शिवसायुज्यमाप्नुयात् ॥ ३५१ तस्मान्मुक्तेश्चिराध्येतुं कर्मयज्ञो हि देहिनाम् । अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ ३५२ तस्मात्पञ्चसु यज्ञेषु ध्यानयज्ञरतो भवेत् । ध्यानं ज्ञानंच यस्यास्ति तीर्णं तेन भवार्णवात् ॥ ३५३ आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः । हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ३५४ शिवज्ञानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते । तदुभाभ्यामेव मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥ ३५५ द्वादशान्तेऽथवा मूर्ध्नि ललाटे भ्रूयुगान्तरे । नासाग्रे वाथवा नेत्रे कन्धरे हदयेऽथवा ॥ ३५६ नाभौवा शाश्वतस्थाने श्रद्धाशुद्धेन चेतसा । बहिर्योगविचारेण देवं देवींच पूजयेत् ॥ ३५७ अथैवं श्रूयते तत्र वायव्यां कुत्रचित्पुनः । नामाष्ठकमयो योगः शिवेन परिकल्पितः ॥ ३५८ तेन योगेन सहसा शैवी प्रज्ञा प्रवर्तते । प्रज्ञया परमं ज्ञानमचिराल्लभते स्थितिम् ॥ ३५९ प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् । प्रसादात्परमो योगः स शिवं चापरोक्षयेत् ॥ ३६० शिवापरोक्ष्यात्संसारकारणं तु वियुज्यते । ततः स्यान्मुक्तसंसारो मुक्तः शिवसमोभवेत् ॥ इति ॥ ३६१ अथात्मनां शिवेन विशिष्टाद्वैतसिद्धसायुज्यप्राप्तौ शिवावेशवशात्तेषां तेन साम्यप्रतिपादनं अन्यथैकात्मवादरीत्त्या सायुज्यमात्रसिद्धौ भूयो भूयः संसारप्राप्तिदोषादिसम्भवात् पुनः समुत्पत्यादिसाम्याभ्युपगमे त्वद्वैत श्रुतिविरोधादनित्यत्वादिदोषापत्तेः । तदुक्तं च — श्रौतपाशुरते मुक्तिर्मलापायादनन्तरम् । शिवावेशवशादुक्तविशिष्टाद्वैतवर्त्मना ॥ ३६२ शिवधर्मान्वितो मुक्तः शिवैकज्ञानपूर्वकम् । आत्मानन्दमवाप्नोति तथैव वचनं श्रुतम् ॥ ३६३ अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः । मूर्त्यात्मसुएवमैश्वर्यमीशस्यैव न चात्मनाम् ॥ ३६४ तत एव जगत्यस्मिन् काष्ठपाषाणमृत्स्वपि । शिवावेशवशादेव शिवत्वमुपचर्यत ॥ ३६५ तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम्। यथापः स्रोतसा व्याप्ता यथारण्ये हुताशनः ॥ ३६६ एवं महात्मनात्मानमात्मन्यपि विलक्षणम् । सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ॥ ३६७ तमेवमात्मनिष्ठं तं ये पश्यन्ति मुमुक्षवः । तेषामेव सुखं नित्यं नेतरेषां महात्मनाम् ॥ ३६८ ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् । इत्यादि बहुधा पूर्वं श्रौतशैवमुदाहृतम् ॥ ३६९ अथावेशवशदेव शिवधर्मान्वितो यदि । स चात्मा जड एव स्यादिति शङ्का न विद्यते ॥ ३७० आत्मासौ चेतनो यस्मात् समाविष्टः शिवेन तु । ग्रहैराविष्टपुरुष इव वेत्ति करोति च ॥ ३७१ अन्यथासौ शिवः कुर्यात्पाशाविष्टः स्वकर्म च । घटाविष्टः पिशाचश्च तथैव वचनं श्रुतम् ॥ ३७२ शिवस्य परिपूर्णस्य परानुग्रहमन्तरा । न किञ्चिदपि कर्तव्यमिति साधुविनिश्चितम् ॥ ३७३ स्वभावादेव पर्याप्तं परानुग्रहकर्मणि । अन्यथान्यस्वभावेन न किमप्यनुगृह्यते ॥ ३७४ परं सर्वमनुग्राह्यं पशुपाशादिकं जगत् । परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ३७५ यत्तत्पुनरनुग्रह्यं परतन्त्रं तदिष्यते । अनुग्रहादृते नास्य भुक्तिमुक्तीत्वनन्यात् ॥ ३७६ मूर्त्यात्मानोऽप्यनुग्राह्याः इति पूर्वमुदाहृतम् । सदाशिवादयः सर्वे मूर्त्यात्मानोऽप्यधिष्ठिताः ॥ ३७७ तेऽपिमूत्र्यात्मभावेन लब्ध्वा स्वयं अनुग्रहम् । अन्यात्मनोऽनुगृहन्ति शिवेन समधिष्ठिताः ॥ ३७८ आत्मनामेव भोगाय मोक्षायेत्यादिकं पुनः । अतो हि परमुक्तौ तत् ज्ञानानन्दः श्रुतः स्फुटम् ॥ ३७९ द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ । एकोऽति पिप्पलं स्वादु परोऽनश्नन्प्रपश्यति ॥ ३८० वृक्षेऽस्मिन् पुरुषो मग्नो मुह्यमानस्तु शोचति । जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ३८१ तदास्य महिमानं च वीतशोकः सुखी भवेत् । रसो ब्रह्म रसं लब्ध्वाऽऽनन्दी भवति नान्यथा ॥ ३८२ निजानन्दं सदा पश्यन्नपश्यत्यखिलं जगत् ॥ ३८३-1 इति तत्समता तस्य विमुक्तस्य न सर्वथा । किन्त्वेकदेशतः सिद्धा यत एवं वचः श्रुतम् ॥ ३८४ नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः । एको बहूनां चाकामः कामकामान् प्रयच्छति ॥ ३८५ आत्मानं च पृथक् कृत्वा प्रेरितारं तथा पृथक् । असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ३८६ पशोः पत्युश्च पाशस्य तत्त्वतोऽस्ति यदन्तरम् । ब्रह्मवित्तद्विदित्वैव योनेर्मुक्तो भविष्यति ॥ ३८७ न तस्य विद्यते कार्यं कारणं च न विद्यते । न तत्समो नाधिकश्च क्वचिज्जगति दृश्यते ॥ ३८८ सर्वज्ञत्वादि धर्मेषु चैवमेव यतो वचः । यदा विकासयत्येवरवौ पद्मानि भानुभिः ॥ ३८९ समं न विकसन्त्येव स्वस्वभावानुरोधतः । स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् ॥ ३९० न हि स्वभाविनोऽर्थस्यान्तं कार्येषु साधयेत् । सुवर्णमेकं साङ्गारं द्रावयत्यग्निसङ्गमः ॥ ३९१ एवं पक्कमलानेव मोचयेत शिवः परान् । यद्यथा भविंतु योग्य तत्तथा न भवेत्स्वयम् ॥ ३९२ विना भावयता भर्त्रा स्वतन्त्रः स ततो भवेत् । स्वभावविमलो यद्वत्सर्वानुग्राहकः शिवः ॥ ३९३ स्वभावमलिनो यद्वदात्मानो जीवसंज्ञिताः ॥ ३९४-1 इति वायव्यवचनमथ स्कान्दे विशेषतः । बध्वा पशूनिमान्पाशैः शरीरकरणादिभिः ॥ ३९५ मोचयेत सदा शम्मुः सर्वज्ञत्वादिशक्तिमान् । लीलासाधनभूतास्ते ब्रह्माद्याः पशवः प्रभोः ॥ ३९६ सर्वज्ञोऽयमतः शम्भुः सृजत्यवति हन्ति च । तृप्तो यतः सदादेवः सर्वानुग्राहकः स्मृतः ॥ ३९७ बोधोऽनादिः परस्येति बोधकः सकलात्मनाम् । स्वतन्त्रशक्तिर्देवेशः पक्कान्मोचयति प्रभुः ॥ ३९८ अलुप्तशक्तिमान्यस्मात्तस्मात् मोचनकारकः । अनन्ताः शक्तयोऽस्यैव निमित्तमखिलात्मनाम् ॥ ३९९ एवं षडङ्गवान् पञ्चब्रह्मरूपी सदाशिवः । ज्ञेयः पशुपतिः सर्वैः पशुपाशबिलक्षणः ॥ ४०० इत्येवमात्मनो भावाच्छिवसाम्यं न सर्वथा । अनेकेश्वरवादादि दोष एव ततोऽन्यथा ॥ ४०१ तथा तद्भागतः साम्ये यदन्यद् दूषणं श्रुतम् । केनचित्साधनेनैव मुक्तः शिवसमो भवेत् ॥ ४०२ इत्येवं केचिदिच्छन्ति वादिनो मुनिपुङ्गवाः । वार्तामात्रमिदं प्रोक्तं सर्वथा न तदर्थवत् ॥ ४०३ एकदेशेन वा जीवः किं वा सर्वात्मना समः । एकदेशेन चेत्सर्वे शिवाः संसारवर्तिनः ॥ ४०४ एकदेशेन स्र्वेषामस्ति साम्यं शिवेन हि । सर्वात्मना चेत्साम्यंस्यात् सर्वथा शिव एव सः ॥ ४०५ भेदकाकारशून्यत्वाद्भेदाभावाच्च वस्तुनः ॥ ४०६ तस्माज्जीवः स्वतः साक्षात् शिवः सत्यादिलक्षणः । इतयत्र भागतः साम्ये दूषणं तु न बन्धवत् ॥ ४०७ न सन्ति भाविनां यस्मादात्मानं सर्वथा यतः । न साम्या सर्वथा साम्ये परिपूर्णमनोरथाः ॥ ४०८ स्वरूपावाप्तिरेव स्यादिति मोक्षस्य लक्षणात् । तदेव भागतः साम्यं कामिकादौ च विश्रुतम् ॥ ४०९ शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः । इत्याद्येकात्मवादे तु सफुटमुक्तं च दूषणम् ॥ ४१० त्वन्मते परिविज्ञाननिष्पन्ना अपि मुक्तयः । भजते नाविसंवादमाम्भसा इव कृष्टयः ॥ ४११ समुत्पात्याऽथवा साम्ये सद्य एव विनश्यति । संक्रान्तौ तु न दृष्ठान्तो न मान व्यक्तिसाम्यतः ॥ ४१२ न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा इतीरणात् । तथा तत्कृत्यविरहात् सर्वज्ञत्वेन साम्यता ॥ ४१३ सर्वज्ञत्वं शिवस्यापि ज्ञेयं यत्सर्वकृत्यतः । एवं च सति षाङ्गुण्यसाम्यवादो निरस्यते ॥ ४१४ ज्ञत्वकर्तृत्वमूलेन षाड्गुण्यप्रतिपादनात् । न चास्य कृत्यविरहेऽप्यस्तु सर्वार्थवेदनम् ॥ ४१५ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । इति न्यायादसाध्यार्थः साधनेऽप्यप्रवृत्तिमान् ॥ ४१६ जगत्कृत्यप्रवृत्तस्य किं तद्विज्ञानतः फलम् । एवं बहुविधाशेषवस्तुव्यापारदर्शिनः ॥ ४१७ जायते कापि संप्रीतिः सा हि तस्य प्रयोजनम् । मैवमेतादृशाज्ज्ञानात्प्रीतिलेशो न जायते ॥ ४१८ यन्नास्त्यतिशयः कश्चित्तद्गृहीतेषु वस्तुषु । अस्य मुक्तस्य सदृशा अन्ये मुक्ताः शिवेन ते ॥ ४१९ बद्धास्तद्यजनार्थाश्च न्यूनाः कोऽतिशयस्ततः । यदि सृष्ट्यत्ययं शम्भोः कृत्यातिशयदर्शनात् ॥ ४२० तदा तत्साम्यवादोऽयं त्वया दत्तजलाञ्जलिः ॥ ४२१-1 सति ह्यतिशये शम्भौ नवतत्वान्तदर्शिनम् । कर्तुमर्हसि तस्मात्वं भग्ना सर्वज्ञताप्यसौ ॥ ४२२ किञ्cअ तच्छिवकृत्यस्य भानं चिदचिदात्मके । जगत्येव नcआस्पन्दे शिवे मुक्तान्तरेषु वा ॥ ४२३ तन्मुक्तस्य जगच्चेष्टा ज्ञानं तत्स्मरणात्मकम् । न्यायो ह्त्यनादौ संसारे किं न संभवति स्वयम् ॥ ४२४ अपि वा परमुक्तो तत् ज्ञानं योगविशेषतः । यथार्थं विश्वविज्ञानांज्जीवन्मुक्तः प्रजायते ॥ ४२५ समाधौ मलमुत्सार्य चान्यदेशचरित्रकम् । जायते येन तत्सर्वं योगिभिर्योगदर्शनम् ॥ ४२६ इत्यादि वचनं तत्र प्रमाणं परिदृश्यते । तदर्थेष्वनुभूतेष्वप्यस्ति नातिशयः कृतः ॥ ४२७ अस्तु वातिशयः कश्चिदस्य प्रीतिकरो न सः । दयाकरस्तु बद्धानां दर्शनाज्जायते हि सः ॥ ४२८ यथा तुल्यः शिवोऽप्येषां क्लेशं दृष्टवा कृपानिधिः । मुक्तिं करोति कालेन श्रूयते तच्च सर्वतः ॥ ४२९ जगत्सृष्टिस्थितिध्वंसं कारुण्याच्च शिवात्मकम् । एवं स्वभावमलिनान् सर्वदा दुःखिनः पशून् ॥ ४३० स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः । संसारस्येश्वरो नित्यं समूल्य निवर्तकः ॥ ४३१ संसारवैद्य इत्युक्तः स च तत्वार्थवेदिभिः । यथा वात्र द्वयोर्लोके समं कारागृहस्थयोः ॥ ४३२ विमुक्तोऽन्यतरं वीक्ष्य नासौ सुप्रीतिमृच्छति । किंतु तं दयते क्लेशात्तथा बद्ध च मुक्तिभाक् ॥ ४३३ तथा सति स चाकिञ्चित्करः सन्दुःखितः सदा । अन्यथा प्रीतियुक्तश्वेत्स हि दुष्टतमो भवेत् ॥ ४३४ तथा तज्ज्ञानतस्तुष्टिर्न शिवस्यापि विश्रुता । न शिवेन विना किञ्चित्प्रवृत्तिरिह विद्यते ॥ ४३५ तत्प्रेरितमिदं सर्वं तथापि न स तुष्यति । शक्तिराज्ञापिका तस्य नियन्त्री सर्वतो मुखी ॥ ४३६ तया ततमिदं विश्वं तथापि न स तुष्यति । वायव्ये हि ततश्चोक्तमेवं त्वन्मतवादिभिः ॥ ४३७ नात्मच्छेदोऽपवर्गो न च पशुशिवयोरैक्यमत्रापवर्गो । नाविद्याग्रासहनिर्नच गुणविलयो नापि पाषाणमुक्तिः ॥ ४३८ यद्बोधानन्दरूपत्रिमलविगमने व्यक्तमात्मस्वरूपं । तन्सायुज्येनवाच्यं शिवसदृशविभुः शैवतन्त्रेऽपवर्गः ॥ ४३९ पश्यन्वागविनान्तं तत् कर्मवैचित्रयवेष्टितम् । मुक्तस्तिष्ठति तुष्णीको यदिहास्य पुमर्थता ॥ ४४० नह्यन्यतरदत्रेष्ठप्राप्त्यनिष्ठप्रहाणयोः । ततश्च शिवसाम्योक्तरीत्या युक्ति पुरःसरम् ॥ ४४१ विशिरान्तरतः सिद्धः सर्वज्ञत्वादिधर्मतः । शिव धर्मान्वितो मुक्तो जीवः शिवसमो भवेत् ॥ ४४२ इत्येवं संग्रहादेव श्रौतपाशुपतो मतः । दर्शितं चात्र वायव्यसंहितावचनादिभिः ॥ ४४३ १८। गारुड शैवम् दृष्टादृष्टार्थसंसिद्धशास्त्रेषु सकलेषु च । लोकविश्वासहेतोस्तत् दुष्टार्थप्रतिपादनम् ॥ ४४४ गारुडं दक्षिणं वामं भूततन्त्रं तथैव च । चतुर्विधानि शास्त्राणि पुरुषाद्युदितानि च ॥ ४४५ अधः स्रोतांसि शैवानि मूर्तिभिः पुरुषादिभिः । विज्ञानकेवलैरुद्रैः प्रेर्यस्तत्पुरुषादिभिः ॥ ४४६ प्रवर्तितानि तान्येवं कामिकाद्यनुसारतः । अस्वतन्त्रतयोक्तानि तेषु गारुड उच्यते ॥ ४४७ तत्पूरुषब्रह्मरूपः पूजनीयो जगत्पतिः । तदुपासनया सिद्धप्रत्यक्षमिदमुच्यते ॥ ४४८ यन्मन्त्रौषधसंसिद्धं चिकित्साजातमुत्तमम् । दक्षिणे घोररूपं तु परं ब्रह्म जगत्पतिः ॥ ४४९ साधकैः पूजनीयः स्यात् स्वाभीष्टार्थप्रसिद्धये । तथा स्वाभीष्टसिध्यर्थ लोकेशत्रुजयादयः ॥ ४५० वामे तु वामदेवः स्यात् पूजनीयो महेश्वरः । ततः प्रत्यक्षसिद्धार्थ रसबौद्धादयो मताः ॥ ४५१ सद्यो जातंतु यद्बहा भूततन्त्रे तु पूज्यते । भूतप्रेतचिकित्सादिः प्रत्यक्षार्थं इहोच्यते ॥ ४५२ इत्येवं संग्रहेणोक्ताः शैवास्ते गारुडादयः । अन्यथाप्यस्ति चेदेवं तत्र तत्रावधार्यताम् ॥ ४५३ १९। योगशैवम् शिवयोगिमते मुक्तिः सारूप्यमिति कथ्यते । न तु सालोक्य सामीप्य पदावाप्तीति ये स्मृते ॥ ४५४ न श्रेष्टौ पुरुषार्थौ तावसंपूर्णमनोरथौ । शिवसारूप्यसंप्राप्तिः शिवत्वप्राप्तिरिष्यते । ४५५ सा मुक्तिः शिवसाम्येति सिद्धान्ते श्रूयते स्फुटम्। शिवसमानतारूपं शिवविग्रह एव च । ४५६ सायुज्यमिति तत्प्रोक्तमित्यादि वचनादिह । सायुज्यमिति पर्यायः सारूप्यस्येति निश्चयात्। ४५७ अविरोधस्त्वनेकेशवाददोषोऽपि नो भवेत् । ४५८-1 शिवप्रसादतो मुक्ता जीवा यस्मात्तथा वचः । मुक्तात्मानोऽपि एव विज्ञेयः पञ्चमन्त्रतनुः ॥ ४५९ ततः सारूप्यमुक्तिर्या सा मुक्तिर्योगिनां मते । अणिमादि महासिद्धिप्रदा हि परमा मता । ४६० योगशैवाश्च बहवो गृहयन्तेऽत्र चतुर्विधाः । सिद्धान्तोऽनादिशैवश्च तथाऽवान्तर एव च ॥ ४६१ योगशैवाः चतुर्विधाः एवं संग्रहतो मताः । ४६२-1 २० अवान्तरशैवम् अवान्तरे तु पूर्वोक्तमङ्गीकृत्य यथोचितम् । ॥॥ केशवेऽस्मिन् पदमुक्तिमते पुनः ॥ ४६३ प्रणवः शब्दरूपत्वाज्जडो वर्णादि पञ्चकम् । जीवानां ज्ञानहेतुः स्यात्तत्तद्विषयगोचरे ॥ ४६४ ब्रह्मादिप्रेरकैः प्रेर्यः परो बन्धस्तथागमः । अकारश्च उकारश्च मकारो बिन्दुनादकः ॥ ४६५ योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् । अकारश्च उकारश्च अहङ्कारं बुद्धिरेव च ॥ ४६६ मकार ॥॥ क्तं नादात्मविग्रहम् । एवं पश्चप्रकारेण ओङ्कारोहृतमुच्यते ॥ ४६७ तज्जातस्वात्मबोधस्तु सजलस्य तरङ्गवत् । अकारं ब्रह्मदैवत्यं उकारं विष्णुदैवतम् ॥ ४६८ मकारं रुद्रदैवत्यं बिन्दुरीश्वर एव च । नादं सदाशिवं प्रोक्तमित्येताः पञ्च देवताः ॥ ४६९ चतस्रो वृत्तयस्तस्या याभिर्व्याप्तास्त्रिधासवः । आप्योरपरमो बन्ध एभ्यो मुक्तिस्तु नापरः ॥ ४७० तन्निवृत्यविनाभूतो दृक्क्रियावारको यतः । इत्येवं न पतिर्नदिस्ततोऽन्यश्चेतनः शिवः ॥ ४७१ स स्तन्मादिस्वरूपेण पञ्चकृत्येन पञ्चधा । ? तेषां शिवैकरूपत्वान्न वैषम्यं परस्परम् ॥ ४७२ नानारूपविकल्पेन ध्येयः सर्वार्थ ईश्वरः । तस्माद्विष्णुश्च रुद्रश्च ईश्वरश्च तथा शिवः॥ ४७३ पञ्चधा पञ्चदैवत्यं सकलः परिपठ्यते । येन येन हि रूपेण साधक संस्मरेत्तदा ॥ ४७४ तस्य तनमयतां याति चिन्तामणिरिवेश्वरः । इतयतो मुक्तिसिध्यर्थमुपासयासते तथा क्रमः ॥ ४७५ मूलाधारे स्थितो ब्रह्मा नाभ्यन्तं व्याप्य तेजसा । नाभिस्थानगतो विष्णुः कण्ठानतं तु स्वतेजसा ॥ ४७६ कण्ठे रुद्रो ललाटान्तं स्थितो व्याप्य स्वतेजसा । ललाटे तु महेशः सयाद्ब्रह्मरन्ध्रावधि स्थितः ॥ ४७७ तदूर्ध्वे तु सदेशः सयाद्व्याप्य सर्वं स्वतेजसा । इति स्वस्वस्थले ध्येयाः स्वतेजोमण्डलान्विताः ॥ ४७८ २१। शुध्दशैवयोगम् अथात्र शुद्धशैवाख्ययोगपक्षो निरूप्यते । प्रागुक्तपुत्रमार्गेषु शुद्धशैवस्य यन्मतम् ॥ ४७९ तन्मते सिद्धमर्थं तदङ्गीकृत्य यथोचितम् । पशुः पाशश्च पूर्वोक्तः पतिरेव सदाशिवः ॥ ४८० महेश्वरादिदेवास्तु तदाज्ञापरिपालकाः । ४८१-1 तदर्चायां तु सामीप्यं ध्यानात्सारूप्यमेव च । तत्तु तत्समतामुक्तिः सा संपूर्णमनोरथा ॥ ४८२ शिवसमानतारूपं शिवविग्रहमेव च । सायुषार्थेषु परमस्तत्प्राप्तौ साधनात्मकः । योग एव स कर्तव्यो मृगेन्द्रादिषु विश्रुतः ॥ ४८३ अथवात्मवतां मत्वा स्वाधिकारं सुदुष्करम् । यतेरन्नात्मवत्तायै देशिकाद्या जिगीषवः ॥ ४८४ तदात्मवत्वं योगित्वं जिताक्षस्योपपद्यते । प्राणायामाद्यनुष्ठानाज्जिताक्षत्वं शनैः शनैः ॥ ४८५ प्राणायामः प्रत्याहारः धारणाध्यानवीक्षणे । जपः समाधिरित्यङ्गी योगोऽष्टमः स्वयम् ॥ ४८६ प्राणः प्रागुदितो वायुरायामोऽस्य प्रवेदनम् । प्रेरणा कृष्टिसंरोधलक्षर्णं क्रतुदोषकृत् ॥ ४८७ ततः सुखलवास्वादे तेषां वृत्तस्य चेतसः । प्रत्याहारो विधातव्यः सर्वतो विनिवर्तनम् ॥ ४८८ तेनेन्द्रियारथसंसर्गविनिवृत्तोश्चितो मतिः । धारणा योग्यतामेति पदे सवेच्छाप्रकल्पिते ॥ ४८९ चिन्ता तद्विषयध्यानं तच्चादिष्टं मुहुर्मुहुः । दृष्टमित्यत्र मन्त्राणि तानि मूर्धादितः स्मरेत् ॥ ४९० ऊध्र्वप्राक् दक्षिणादीनि पञ्चेशानेन कल्पयेत् । उत्तमाङ्गानि वक्त्राणि वक्त्राम्बुजचतुष्टयम् ॥ ४९१ इत्यादि वचनात्स्पष्टमर्चनापटलादिषु । तदेकतानतामेति स समाधिर्विधीयते ॥ ४९२ जपस्तद्भाषणं ध्येयं संमुखीकरणं मुने । ऊहो हि वीक्षणवस्तुविकल्पानन्तरोदितः ॥ ४९३ यदा वेत्ति पदं हेयमुपादेयं च तत्स्थितेः । तत्पोषकं विपक्ष च यश्च तत्पोषक परम् ॥ ४९४ इत्यादिवचनाच्छुद्धशैवयोगोऽवधार्यताम् । एवं योगक्रमस्त्वन्ययोगिनामपि संमतः ॥ ४९५ तत्तन्मतानुसारेण सकलध्यानिनां नृणाम् । ४९६-1 २२। अनादिशैवम् अनादिशैवसिद्धान्ते त्वङ्गीकृत्य यथोचितम् । पूर्वोक्तेषु विशेषेण कथ्यते लेशतः स्फुटम् ॥ ४९७ शुद्धविद्यादितत्वानां जडता न शिवात्मता । नादस्य ज्ञानरूपत्वं स शिवः स्यादिति श्रुतिः ॥ ४९८ न तु शब्दादृते पुंसः प्रत्ययोऽस्ति कदाचन । शब्दानुविद्धमेवेह विश्वज्ञानंप्रदृश्यते ॥ ४९९ इति तज्ज्ञानसंसिद्धिः सूक्ष्मादिक्रमतः स्फुटम् । ५००-1 तदेव प्रणवाकारं शिवं चैव तथागमः । नादबिन्दूद्भवाकारं ओङ्कारं शुद्धतत्त्वकम् ॥ ५०१ शुद्धज्ञानं स्वताज्ञांशं शुद्धवर्त्मनि कारणम् । ज्ञानबीजं पराकारमोङ्कारं प्रभुरीश्वरः ॥ ५०२ तत्सादाख्यशिवाकारं कलापञ्चकसम्भवम् । अकारोकारमकारबिन्दुनादश्च पञ्चमम् ॥ ५०३ ओङ्कारं स्वकलाकारं मध्ये वाक्पञ्चकोद्भवम् । महासूक्ष्मान्नादमुत्पन्न सूक्ष्माद्बिन्दुसमुद्भवम् ॥ ५०४ पश्यन्ती तन्मकारोजमुकारो मध्यमोदयम् । अकारोत्पन्नावैखर्या आदिवाक् पञ्चसाधनम् ॥ ५०५ तन्मध्ये तु महेशश्च रुद्रविष्ण्वात्मभूरिति । ५०६-1 पञ्चमस्य कलाशाक्तिः पञ्चकृत्योद्भवं तथा । सृष्ट्यादि पञ्चकृत्यर्थं ब्रह्मादिदेवसम्भवम् ॥ ५०७ षट्त्रिंशत्तत्वसंभिन्ना कुटिला शक्तिरुद्भवा । कुटिला कुण्डली व्याप्ता कुण्डली प्रणवोदिता ॥ ५०८ इति सर्वजगत्कर्ता शिवो नादात्मकः स्मृतः । स्वस्वावसरभेदेन श्रूयते द्विविधः पुनः ॥ ५०९ ॥॥ शब्दब्रह्मपरं तु यत् । परं तत्तत्वमुद्दिष्टं ब्रह्मशब्देन शब्दितम् ॥ ५१० शब्दब्रह्ममयं यत्तत् सदाशिवमिति स्मृतम् । सदाशिवतनुः साक्षात् प्रणवः स्याज्जनार्दन ॥ ५११ सर्वकारणभूतोऽसौ देवदेवः सदाशिवः । तन्नादो परनादः स्यात् नान्यथेति तथागमः ॥ ५१२ नादब्रह्म शब्दार्थं ध्यायेदोङ्कारमीश्वरम् । इत्येवं वैदिकेऽप्युक्तं श्रूयते च शिवागमे ॥ ५१३ ममैषा परमा मूर्तिः नादसंज्ञा वरानने । चिन्त्यते योगिभिर्नित्यमपुनर्भवकाङ्क्षिभिः ॥ ५१४ शब्दतत्वे परेलीने ओङ्कारा गतमानसः । परमोक्षमवाप्रनोति शब्दस्यैवार्थसिद्धये ॥ ५१५ तत्सिद्धौ लययोगी स्यात् श्रृयते तस्य वैभवम् । ५१५-1 ब्राह्मणानां शतं पुण्यमधिकं वेदवेदिनाम् । तेषां सहस्रगुणिताः शैवतन्त्रेषु दीक्षिताः । ५१७ दीक्षितानां च सर्वेषां यजमानो विशिष्यते । तेभ्यश्च यजमानेभ्यो भस्मलेपी विशिष्यते । ५१८ भस्मलेपिसहस्राणां पूजकोऽप्यधिको भवेत् । पूजकानां च सर्वेषां मन्त्रवेत्ता विशिष्यते । ५१९ मन्त्रवर्णविदां तेषामध्वज्ञाता विशिष्यते । अध्वविदां सर्वेषां प्रासादज्ञो विशिष्यते ॥ ५२० प्रासादज्ञानवेदीनां लययोगी विशिष्यते । लययोगवतां पुंसां प्राणलिङगी विशिष्यते । ५२१ इत्येवं नासतो मुक्तिः शुद्धतत्त्वसमाश्रया । अथोपास्तिक्रमः शैवे योगदीक्षापुरःसरम् । ५२२ ज्ञेयं गुरुमुखादेव शक्तिपातपवित्रितैः । इत्यनाद्याख्यशैवार्थः कथितः संग्रहादिह ॥ ५२३ २३। सिद्धान्तशिवयोगः अथ सिद्धान्तशैवस्तु संग्रहेण निगद्यते । योगसामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् । ५२४ पतिः पशुश्च पाशश्च पदार्थस्त्रिविधो मतः । अशुद्धाध्वा तु पाशः स्यात् कलाभित्तिस्तदुच्यते । ५२५ पुस्त्वं पशुरेवस्यान्नत्वन्याश्चेतनो मतः । पुंस्तत्वं च विना भोगानुपपत्तेः कञ्चित् क्वचित् । ५२६ तस्यात्मेत्यादि संज्ञास्तु तस्यावसरभेदतः । तदेवं शुद्धशैवाख्ये सिद्धान्ते भ्रूयते स्फुटम् । ५२७ कलोद्बलितचैतन्यो विद्यादर्शितगोचरः रागेण रख्रितश्चापि बुद्धयादिकरणैर्युतः ॥ ५२८ मायाद्यवनिपर्यन्ततत्वभूतात्मवर्त्मनि भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् । ५२९ तत्प्रेरकः पतिः सोऽयं शिवतत्त्वात्मको मतः । शिवतत्वं यथाप्रोक्तं प्रेरकाख्यमिति श्रुतेः ॥ ५३० विदन्त्यक्षाणि पुंसार्थान्न स्वयं सोऽपि शम्भुना । इत्येवं तत्प्रयोगश्च मुक्त्युपायस्तु कथ्यते ॥ ५३१ पतिस्तु शिवतत्वाख्यं पञ्चधा कार्यभेदतः । ज्ञानं नादस्वरूपं च क्रियारूपं तु शक्तिकम् ॥ ५३२ ज्ञानक्रियासमावेशात् सादाख्यं तत्वमुद्भवम् । ज्ञानन्यूनं क्रियाधिक्यं तत्वं माहेश्वरं भवेत् ॥ ५३३ योगाधिक्य क्रियान्यूनं शुद्धविद्याख्यरुद्रकः । शुद्धतत्वमिति प्रोक्तं नित्यं स्वातन्त्र्यविग्रहम् ५३४ कृत्यभेदं विना नैवमेतत्पूर्वा पराक्रमः । इति नानाविधस्त्वेकः शिवो ध्येयस्तथागमः ॥ ५३५ स तु निरञ्जनः शान्तः सर्वज्ञः सर्वगः प्रभुः । ५३६-1 नानारूपविकल्पेन शिवशक्त्योः प्रधानता । सर्वेषामपि मूलत्वादिति ध्येयं मुमुक्षुभिः ॥ ५३७ तद्व्यष्टिस्थानतो वाथ समष्टिध्यानतः पुनः । एवं हि श्रृऊयते शैवे शुद्धविद्या हिरण्मया ॥ ५३८ महेश्वरः श्वेतभासः सादाख्यं स्फटिकोपमम् । बिन्दुनादस्वरूपं तु श्वेतरक्तप्रकाशकम् ॥ ५३९ इति तद्व्यष्टितो ध्यानं समष्टिध्यानमुच्यते । कुन्देन्दुतुहिनप्रख्यं वृत्तं सर्वार्थदर्शकम् ॥ ५४० शिवतत्वं स्मृतं ह्येतत्पञ्चवक्त्रं चतुर्भुजम् । एतद्ध्यानादणोर्मुक्तिरणिमादि पुरःसरम् ॥ ५४१ तदेवं ध्यानतः सिद्धौ भौतिकं तु नियामकम् । यस्मान्नाचेतनं तत्वं सिद्धमप्युपकारकम् ॥ ५४२ शैवं वपुरिति ध्यायेदतो यत्तत्समीहितम् । इत्येवं संग्रहेणायं सिद्धान्तः कथितः स्फुटम् ॥ ५४३ २४। गुणशैवम्। अथात्र गुणशैवे तु जगत्सर्वं गुणान्वितम् । कैवल्यं साधकानां तत्त्रिमूत्र्याराधनात् स्मृतम् ॥ ५४४ इत्ययं किं प्रतिपादयति? शुद्धशैवभेदेषु ॥॥॥ सिद्धपदमुक्ति पादेषु प्रागुद्दिष्टक्रमेण प्रथमं गुणशैवमतं दर्शयति । अत्रगुणशैवो नाम शुद्धशैव एव । तन्मते विश्वस्य गुणान्वितत्वप्रतिपादनं प्राकृतप्रपञ्चं विना तदूर्ध्वकलादि तत्वतात्विकार्थानामभ्युपगमात् । तदुक्तं च — न तदस्ति जगत्यस्मिन् वासतु किंचदचेतनम । यन्नाव्याप्तं गुणैर्यस्मिन् नैको वा मिश्रको गुणः ॥ ५४५ इति मृगेन्द्रशास्त्रोक्तेर्जगत्सर्वं गुणान्वतम् । तथा भारतपक्षादौ विस्तरेण च दर्शितम् ॥ ५४६ ततस्तदूर्ध्वमर्धोनकलादि बहुधेरितः । तथा चास्मिन्मते तत्वं प्रधानाख्यं च कर्म यत् ॥ ५४७ तिरोधायी च पाशः स्यात् सकलः पशवो मताः । देवादिस्थावरान्ताश्च विज्ञानप्रलयाकलाः । ब्रह्मा विश्णुश्च रुद्रश्च जगत्कर्ता तथागमः ॥ ५४८ अचेतनं विभुं सूक्ष्मं भोग्यं साधारणं ध्रुवम् । चतुविंशकमेकं च प्रधानगुणलक्षणम् ॥ ५४९ पुंसां भोगापवर्गार्थिमीश्वरेच्छा प्रचोदितम् । प्रधानाच्च भवेद्बुदिधः जगद्धेतुशिवाज्ञया ॥ ५५० बुद्धेरपि च संक्षोभादहङ्कारखिधा भवेत् । अहङ्काराच्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ॥ ५५१ सूक्ष्मेभ्यः पञ्चभूतानि तेभ्यः स्थूलमिदं जगत् । चतुर्विंशकमव्यक्तं पुरुषः पञ्चविंशकः ॥ ५५२ क्वचित्कलादिभेदानां कथनं तु शिवागमे । अवस्थान्तरभेदेन प्रकृतेरिति सम्मतम् ॥ ५५३ अथ तत्पुरुषश्चात्र श्रुतो लक्षणपूर्वकम् । किञ्चित्कर्ता स किञ्चिज्ज्ञः पुरुषः पञ्चविंशकः । ५५४ न करोति यतः सर्वं स भोग्यं च करोति च । अतः स्वातन्त्रयवान्नायं किञ्चित्कर्ताणुरेवच ॥ ५५५ न वेत्ति तत्त्वतः सर्वं तेनाज्ञः पुरुषः स्मृतः । इति । अथ त्रिमूत्र्याराधनादेव मुक्तिप्रतिपादनं तदन्यत । या महेश्वरादि देवतानभ्युपगमात् । तदुक्तं च गुणशैवमते कर्ता रुद्र एकस्तथा पुनः । त्रिबिधः कृत्यभेदेन गुणाविष्टस्तथागमः । ५५६ संहृत्य भुवनं विश्वं गोप्तान्तः संचुकोच सः । एक एव तथा रुद्रो न द्वितीयश्च कश्चन । ५५७ इति स्वायंभुवे प्रोक्तः शिवधर्मोत्तरे पुनः । रुद्रः षट्वंशकः प्रोक्तः शिवः परमकारणः । ५५८ प्रधानादभवद्रुद्रः तथा विष्णुः पितामहः । सत्कार्यकरणोपेता स विशुद्धा महेश्वराः ॥ ५५९ जगतः कारणत्वेन त्रयो देवा व्यवस्थिताः । इत्येवं च त्रयश्चात्र समा एव परस्परम् । ५६० तदुपासनया मुक्तिस्तत्तदागमवर्त्मना । वैदिकोऽपि च शैवेन नान्यथा मुक्तिरिष्यते । ५६१ इन्द्रादित्यादि देवा ये तदाज्ञापरिपालकाः । तदेतद्गुणशैवं तु ज्ञानसिद्धौ च विश्रुतम्। ५६२ जटाचूडामणिर्भस्मधारण भस्ममिश्रकम् । त्रिगुणैश्च त्रिमूर्त्तिः स्याद्भावानां गुणशैवकम् । ५६३ २५। परकैवल्यम् अथातः परकैवल्यमते निष्कळसेवया । परमुक्तिः त्रिधा सा तु संग्रहान्नवधा पुनः ॥ ५६४ इत्ययं किं प्रतिपादयति? प्रागुपदिष्टक्रमेण सामान्यतः शुद्धशैवभेद-कर्मावरण सिद्धान्तकलितपरमुक्ति सिद्धान्तप्रकटनपूर्वकं तद्विभागं दर्शयति । अथ इत्यधिकारार्थः । अतः परमुक्तिमतात्परम्परामुक्तिमतप्रकरणे तन्मते निष्कलोपास्यैव मुक्तिः सा च परा इति प्रतिपादनम् । प्रगुक्तपदमुक्तवादरीत्या सकलोपास्तितः प्राप्तपदमुक्तेर्विनाशित्वात्। तदुक्तं च — अथातः शुद्धशैवोक्तकर्मावरणसंभवः । परमुक्तिमतोऽयं च सङ्ग्रहेण निगद्यते । ५६५ पूर्वं सामान्यतः प्रोक्तं शुद्धशैवमते पुनः । पूर्वोक्तेतु मते सर्वमङ्गीकृत्य यथोचितम् । ५६६ पतिः पशुश्च पाशश्च पदार्थस्त्रिविधो मतः । पतिस्तत्र शिवः प्रोक्तो निष्कलो निर्मलः श्रुतः । ५६७ अप्रमेयमनिर्देश्यमनौपम्यमनामयम् । सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् । ५६८ अप्रमेयमनन्तत्वादनिर्देश्यमलक्ष्यतः । ५६९-1 अनौपम्यमसादृश्याद्विमलत्वादनामयम् । सूक्ष्मं चानुपलभ्यत्वाद्व्यापकत्वाच सर्वगम् । ५७० नित्यं कारणशून्यत्वादचलत्वाच्च तध्रुवम् । अव्ययं परिपूर्णत्वात्स्वामिभावात्तथेश्वरम् । ५७१ शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरी संस्थितम् । इत्यतः सकलत्वादि निरस्तं प्रागुदीरितम् । ५७२ शिवस्य निष्कलस्यास्य कर्तृत्वमपि युज्यते । सृष्ट्यादावात्मनो देहचेष्टायां युज्यते यथा ॥ ५७३ अतो हि श्रृऊयते स्पष्ट मृगेन्द्रादौ तथैव च । अथानादिमलापेतः सर्वकृत्सर्वविच्छवः ॥ ५७४ पूर्वव्यत्यासितस्याणोः पाशजालमपोहति । करणं च न शक्तयन्यच्छक्तिनिर्गचेतनान्वितः ॥ ५७५ विषया नियमादेकं बोधकृत्ये च तत्तथा । लोके वपुष्मतो दृष्टंकृत्यं स्यादस्मदादिवत् ॥ ५७६ मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं विभोः । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ ५७७ ईशतत्पुरुषाधोर वामाजैर्मस्तकादिकम् । यथा कालो ह्यमूर्तोऽपि दृश्यते फलसाधकः ॥ ५७८ एवं शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया । सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणम् ॥ ५७९ योगिनामुपकाराय स्वेच्छया गृह्यते तनुम् । इत्यस्य सकलत्वेऽपि कश्चिद् दोषो न विद्यते ॥ ५८० पशुरात्मा विभुर्नित्यः सकलः प्रलयाकलः । विज्ञानाकल इत्येव त्रिबिधः स्यात्तथागमः ॥ ५८१ आत्मनो व्यापिनोऽनन्ताश्चिद्रूपाः पशवस्त्रिधा । सकलाकलभेदेन एकद्वित्रिमलाः क्रमात् ॥ ५८२ मायाकर्ममलच्छन्नः सकलः सोऽभिधीयते । सृष्टौ कलादियोगा ये तथैते सकला मताः ॥ ५८३ मलकमाव्ऱ्‌^तो यस्तु स भवेत्प्रलयाकलः । मलैकबन्धसम्बन्धो विज्ञानाकलः पशुः ॥ ५८४ आथात्मनां विभुत्वं च पौष्करादिषु विस्तृतम् । व्यापकत्वे ह्यणौ सिद्ध्यद्धर्मव्यापकता भवेत् ॥ ५८५ अन्यत्रानुपलब्धस्य देहाद्व्यापकता कुतः ॥ ५८६आ ईश्वरः — न देहपरिमाणत्वमाणूनामुपपद्यते । तस्य देहाद्बहिर्देशे स्थितार्थग्राहृत्वतः ॥ ५८७ किञ्चाभिव्यञ्जको यत्र यत्र देहेन्द्रियादिकम । तत्र सर्वत्र तत्कार्यद्रुष्टेर्व्यापकतात्मनः ॥ ५८८ व्यापकोऽयममुर्त्ततवाध्याथा व्योम ततस्तथा । तद्धर्मभूतं ज्ञानं च व्यापकं विषयोन्मुखम् ॥ ५८९ इत्यादि बहुधा स्पष्ट साधितं तत्तथा सति । पुर्यटकसमायोगादवस्थादिश्च युज्यते ॥ ५९० पाशाः पञ्चविधा ज्ञेयाः प्रागुक्तेनैव वर्त्मना । तच्छुद्धाध्वपदप्राप्तिरपि बन्ध इति स्मृतः ॥ ५९१ मलश्चास्ति पशूनां तत्सद्भावे श्रूयते श्रुतिः । आत्माऽन्तःकरणादन्योप्यन्वितो मन्त्रिभूपवत् । अवसथापञ्चकसथोऽतो मलबध्दसवदृक्क्रियः ॥ ५९२ तदेकं सर्वभूतानामनादि निबिडं महत् ॥ ५९३ प्रत्यात्मस्थस्वकालान्तोपाधिशक्तिसमूहवत् । इत्येवं पाशबद्धस्य कुतश्चित्कारणादणोः ॥ ५९४ संप्राप्तशिवपुण्येन कर्मसाम्यस्य सम्भवे । मलपाकेन सार्धं तद् दीक्षा योग्यो भवेन्नरः ॥ ५९५ दीक्षा तु योगमार्गेण न पुनः कर्मवत्र्मना ॥ ५९६-1 योगमार्गेण दीक्षायां पुनरष्टाङ्गयोगयुक् । निष्कलोपासनं कृत्वा परमुक्तिमवाप्नुयात् ॥ ५९७ न कर्तव्यं क्रियाजालं योगिनामिति च श्रुतिः । बहिश्चितं निर्वायैव विन्दन्लीकेन सीदति ॥ ५९८ यद्यद्यपेक्षया यस्तु कुरुते कर्म सञ्चयम् । तद्गतिर्जयिते तस्मान्निराकारं विचिन्तयेत् ॥ ५९९ व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् । संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ ६०० आत्मस्थं यः शिवंत्यक्त्वा बहिष्टं यजते शिवम् । हस्तस्तं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ६०१ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनार्थाय प्रतिमा परिकल्पिता ॥ ६०२ इति सामान्यतः प्रोक्तः परमुक्तिमतस्तिवह । विशिष्योपरि वक्षयामस्तत्तद्वादानुसारतः ॥ ६०३ २६। ईश्वरैक्यसिद्धान्तः तत्रेश्वरैक्यसिद्धान्ते त्वङ्गीकृत्य यथोचितम् । प्रागुकतं परकैवल्यं शिवेनैक्यमितीरितम् ॥ ६०४ इत्ययं किं प्रतिपादयति? शुद्धशैवभेदकर्मावरणसिद्धान्त सिद्धपरमुक्तिपादे प्रागुद्दिष्टक्रमेण प्रथममीश्वरैक्यवादं दर्शयति । अथात्र ईश्वरैक्यवादे प्रागुक्तपरमुक्तिसामान्योक्तेषु यथोचितमुपगमकथनं आणवमलादेरभ्युपगमात् । तदुक्तं च — अथेश्वरैक्यवादस्तु संग्रहेण निगद्यते । पूर्वं सामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ६०५ अनादिनिर्मलस्त्वीशस्तद्वदात्मा च निर्मलः । नायं तद्वज्जगत्कर्ता यदेवं श्रूयते श्रुतिः ॥ ६०६ शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः । पाशाश्चतुर्विधा ज्ञेया नत्वाणवमलो मतः ॥ ६०७ मायैव सहजत्वेन रुणद्धि पशुदृक्क्रिये । किमन्येनाणनेनैवं श्रृऊयते हि शिवागमे ॥ ६०८ माया कम्बुकवज्ज्ञेया तुषवच्च कलादिकम् । शिवेच्छाविधिसंसिद्धौ मायैव सहजो मलः ॥ ६०९ रुणद्धि पुरुषं माया साऽनादिभववासना । मायाच्छादितच्चैतन्यः सः तन्त्रेऽस्मिंशच्च निर्मलः ॥ ६१० तस्मान्मोहादयश्चास्या मायायास्तु गुणा मताः । नत्वाणवमलत्यैव सुप्रभेदे हि ते श्रुताः ॥ ६११ मोहो मदश्च रागश्च विषादश्चैव शोषितम् । हर्षकी हि च वैचित्र्यं सप्तैते सहजा मलाः ॥ ६१२ तदेवं पुरुषोऽनादिनिर्मलः स्यात्तथापि सः । बद्धः शुद्धैरशुद्धैश्च मायाकायैः शिवेच्छया ॥ ६१३ आर्जितैः पुण्यपापैश्च तत्कर्मानुगुणः पशुः । कदाचित्कर्मसाम्ये च शक्तिपाते च सम्भवे ॥ ६१४ मुमुक्षुर्नैष्टिकाचार्यज्ञानदीक्षादिदीक्षितः । सदुपायात्तदुद्दिष्टान्मुक्त एव न संशयः ॥ ६१५ इति अथात्र परमुक्तेः शिवेनैक्यप्राप्तिकथनं ततोऽन्यथापद प्राप्तिकथने तदुपरितनभावेन तत्प्राप्तिकामनानन्तरयोगतः संपूर्णमनोरथाभावात्, तत्कर्मक्षये विनश्वरत्वात्, देहसद्भावेन बन्धनिवृत्यभावाच्च । तदुक्तं च — शिवेनैक्यं तु कैवल्यमैक्यं शैवमते नृणाम् । निष्कलोपासनादेव तत्प्राप्तिश्च श्रुतागमे ॥ ६१६ शिवं परमकल्याणं निष्कलं निर्मलं प्रभुम् । ६१७-1 चिदानन्दमयं नित्यं तेजोरूपं विचिन्तयेत् । पशुभावं परित्यज्य शिवोऽहमिति भावयेत् ॥ ६१८ विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः । नादेयहेयोऽप्ययमप्रतर्क्यस्तिष्ठन्सदा ब्रह्ममयो विशोकः ॥ ६१९ इत्यादि वचनात्तत्र तथा मुक्तिश्च विश्रुता । यथार्कद्युतिरभ्रेषु तथा पाशेष्विहात्मचित् ॥ ६२० मग्ना मुह्यति कालेन तदपाये तु भासते । शिवो संयोजितं रूपं सायुज्यमिति कथ्यते ॥ ६२१ ज्ञानात्सायुज्यं एवं तु तोये तोयं यथा तथा । शिवेनैक्यं गतः सिद्धस्तदध्नस्ववृत्तिकः ॥ ६२२ मलमायाद्यसंसृषटौ भवति स्वानुभूतिमान् । इत्येवं न पदप्राप्तिर्मुक्तिः सा तु विनश्वरा ॥ ६२३ तदेवमैक्यशैवस्तु कथितः संग्रहादिह । ६२४-1 २७। पाषाणवादम्। पाषाणवादिसिद्धान्ते मुक्तिः पाषाणवत्स्थितिः । भेदवादिमते मुक्तिः नृणां निर्मलता मता । ६२५ इत्ययं किं प्रतिपादयति? पाषाणभेदवादो दर्शयति । अत्र पाषाण शैवमते त्वीश्वरैक्यवादोक्तेषु यथोचितमङ्गीकृत्य पाषाणवत्स्थितिरेव मुक्तिरिति प्रतिपादनम् । आणवमलमुपगम्य तस्यानादित्वेन विनाशायोगात्तदुक्तपरमेश्वरैक्यासंभवात् । तदुक्तंच — पाषाणशैवसिद्धान्तः सङ्ग्रहेण निगद्यते । ऐक्यशैवोक्तसिद्धान्ते त्वङ्गीकृत्य यथोचितम् । ६२६ पतिरनादिमुक्तः स्यान्न तथा पशुरुच्यते । पञ्चपाशेन बद्धत्वात्समलः स्यात्तथाऽगमः । ६२७ मलः कर्म च माया च शक्तिश्चैव तिरोधिका । बिन्दुश्च पञ्च पाशाः स्युयैरेवं बध्यते पशुः । ६२८ तन्मायाव्यतिरिक्ताणोर्मलश्च सहजः श्रुतः । सहजोऽणोर्मलो माया कार्यमागमिको मलः ॥ ६२९ माया नो मोहिनी प्रोक्ता स्वतः कार्यातप्रकाशिका । यतः क्रमेण संश्लिष्टा चैतन्यद्योतिकात्मनः ॥ ६३० मलं विदार्य चिद्व्यक्तिरेकदेशो भवत्यणोः । चितेश्चित्सहजो धर्मः स चानादिमलावृतः ॥ ६३१ ताम्रकालिकवद्योगात्सहजः समुदाहुतः । इत्यतो मलधर्माःस्युः प्रोक्ता मोहादयोऽपि च ॥ ६३२ तथा च प्रागुदाहृतवचनस्यैवमूह्यताम् - माया कम्बुकवच्चेति न रुग्वच्छतिरोघकम् ॥ ६३३ प्रत्यक्केवलानां तु नृणां प्रलयकालतः - शक्तिस्वरूपमात्रेण मायायाः समवस्थितेः । तदन्तर्गतभावेन तथात्मुपपद्यतेः ॥ ६३४। यदुक्तं तु ततः पश्चात्तुषवच्च कलादिकम् । इत्येतद्वचनं पूर्वकर्मविषयभोगतः ॥ ६३५ कला(दि) कञ्चुकसम्बन्धस्तुषावत्स्यादिति स्थितम् । शिवेच्छाविधिसंसिद्धौ मायैव सहजो मलः ॥ ६३६ इत्यत्र परमेशेच्छा विधिः कर्म तथा सति । तत्कर्मभोगसिद्धं न मायैव सहकारिणी ॥ ६३७ स्वकार्यद्वारतः सेति सहजत्वं न चान्यथा । रुणद्धि पुरुषं माया याऽनादिभववासना ॥ ६३८ मायाच्छादितचैतन्यमित्यत्राप्येवमुच्यते । भोगद्वारेण भिथ्याधीरयथार्थे यथार्थवत् ॥ ६३९ यथा नृणां भवेदेवजनिकेति तथा श्रुता । मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥ ६४० असत्यं सत्यतां याति यावन्नो विन्दते परम् । इत्येतेऽपि तदेवं हि मायायाः पृथगाणवः ॥ ६४१ तेनायं समलो जीवः जीवप्रेर्यस्तथागमः । पशून् पाशांश्च मुक्ताणून् पातीति पतिरुच्यते ॥ ६४२ तदेवं बद्धजीवात्मा कर्मसाम्यादिसम्भवे । मुमुक्षुः साधको विद्वान् संप्राप्य ज्ञानदेशिकम् ॥ ६४३ ज्ञानदीक्षां लभेत्सा च शास्त्रदीक्षा न चान्यथा । क्रियादीक्षा प्रबद्धानां ज्ञानदीक्षा मनीषिणाम् ॥ ६४४ उच्यते ज्ञानदीक्षां तां न विना पाशमोचनम् । इत्येवं कामिकोक्तेन शास्त्रदीक्षा च सा श्रुता ॥ ६४५ शास्त्रस्य संप्रदानेन शास्त्रदीक्षा समीरिता । न त्वन्या ज्ञानदीक्षा सा क्वचिदेवं हि विश्रुता ॥ ६४६ विनेज्यानलकर्मादि मनोव्यापारमात्रतः । दीक्षा ज्ञानवती प्रोक्ता सम्यक्तत्त्वावबोधजा ॥ ६४७ इत्येषाच क्रियादीक्षा मनोव्यापारसम्भवा । ततः कर्म परित्यज्य ज्ञानाचार्यमुखात्स्फुटम् ॥ ६४८ ज्ञानं प्राप्य भवेन्मुक्तो नान्येति तथागमः । ज्ञानेनैव तु कैवल्यं प्राप्तं तत्र न संशयः ॥ ६४९ संसारबीजमज्ञानं संसार्यज्ञस्ततः स्मृतः । ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ६५० शिवज्ञानात्परं ज्ञानं तत्समं च न विद्यते । वेदपाठाद् दिवं याति मन्वन्तरशतं पुनः ॥ ६५१ शिवागमपरिज्ञानाच्छिवसायुज्यमेष्यति । नास्ति ज्ञानसमो योगो नास्ति ज्ञानसमं व्रतम् ॥ ६५२ नास्ति ज्ञानसमाचर्य नास्ति ज्ञानसमा क्रिया । नास्ति ज्ञानसमं तीर्थं नास्ति ज्ञानसमं तपः ॥ ६५३ नास्ति ज्ञानसमो यज्ञः तस्माज्ज्ञानं विशिष्यते । इत्येवं शैवसिद्धान्ते भ्रूयते वैदिके पुनः ॥ ६५४ आत्मनः परमा मुक्तिर्ज्ञानिनैव न कर्मणा । ज्ञानादेव हि कैवल्यं नान्यथा कर्मकोटिभिः ॥ ६५५ अतो हि ज्ञानवानेव गुरुः स्पादिति च श्रुतिः । सर्वलक्षणहिनोऽपि ज्ञानवान्गुरुरिष्यते ॥ ६५६ इत्येतच्च गुरोः शम्भोः प्रसादाच्चेति विश्रुतम् । यच्च शम्भोः प्रसादेन गुरोश्चैव प्रसादतः ॥ ६५७ जायते तच्छिवज्ञानं नान्यथा सत्यमीरितम् । गुरोरनुज्ञां संप्राप्य पठेद्दिव्यागमं शिवे ॥ ६५८ गुरुवक्त्रेण बोद्धव्यं गुरुसेवापरायणैः । दीक्षितानां तु विप्राणां न पापं वेदपाठनम् ॥ ६५९ अदीक्षितानां विप्राणां शिवागमविलोकनम् । पापमेतन्महादेवि सत्यमेतन्न संशयः ॥ ६६० इत्यदीक्षितपुंसां तु ज्ञानाभ्यासः कथं भवेत् । इति चेन्न तथा प्रोक्तः प्रबुद्धान्प्रति च स्मृतम् ॥ ६६१ न शम्भुगुरुभक्तानां विदुषां वा तथागमः । व्याकुर्याच्छिवभक्तेभ्यः तन्त्रार्थं गतमत्सरः ॥ ६६२ न्यायतो न्यायवर्तिभ्यः पालयन्गुरुसन्ततिम् । अन्यथा तु मतङ्गादेर्मतङ्गाद्यवबोधनम ॥ ६६३ अदीक्षितस्य देवेशः कृतवानिति तत्कथम् । तदेवं ज्ञानतः प्राप्य मुक्तिः पाषाणवत्स्थितिः ॥ ६६४ न चैषा योगतो वाथ दीक्षया वा ततोऽन्यथा । आगन्तुकमलापाये नापायः सहजसय तु ॥ ६६५ न्रुणामनादिसिध्दसयानागनतुकमलसय वै । ततो मायादिसंजातसरवावस्था विवर्जिता ॥ ६६६ सुखदुःखादिविज्ञानविकल्परहिता पुनः । मलमात्रेण संयुक्ता मुक्तिः पाषाणवत्स्थितिः ॥ ६६७ शिवत्वप्राप्तिरेषैव नान्यथेति तथागमः । मनोवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥ ६६८ अन्यथेशात्मनोरैक्ये दूष्यमेकात्मवादवत् । ६६९-1 २८। भेदशैवम् अथात्र भेदशैवमते पाषाणशैवमतोक्तेषु यथोचितमङ्गिकृत्य निर्मलता मुक्तिप्रतिपादनमाणवस्यापि मलस्य विश्लेषयोगेन न्रुणां सर्वमलापाय एव शिवत्वप्राप्तिः परमोक्ष इत्ययुपगमात् । तदुक्तंच — भेदशैवस्य सिध्दान्तः संग्रहेण निगद्यते । पाषाणशैवसिध्दान्तमाङ्गीकृत्य यथोचितम् ॥ ६७० पत्यादयः पदार्थासते भिन्ना एव परसपरम् । अन्यथा तु पदार्थानां स्वरुपं च न सिध्यति ॥ ६७१ तेषां पृथक्तया प्रोक्ततत्तल्लक्षणमप्यथ । तत्र यः पशुरितयुक्त आणवादिसमावृतः ॥ ६७२ कुतनिष्कारणात्तस्य मलपाकादिसम्भवे । शिवशक्तिनिपाते च कृपया परमेश्वरः ॥ ६७३ आचार्यमूर्तिमास्थाय दीक्षया मोक्षदो भवेत् । नतु ज्ञानेन योगादिनाप्येवमागमे श्रुतम् ॥ ६७४ अथात्मा समलो बद्धः पुनर्मुक्तश्च दीक्षया । दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥ ६७५ ज्ञानतो योगतश्चैव चर्यातश्च न मुच्यते । दीक्षया तु भवेन्मुक्तिः सर्वेषां प्राणिनामिह ॥ ६७६ मन्दशक्तिनिपातानां कर्तव्यं च विधीयते । दीक्षितानां ततोऽन्येषां सद्योमुक्तिस्तु विश्रुता ॥ ६७७ एका निर्वाणदा सद्योद्वितीया देहपाततः । प्रारब्धसञ्चितागामि कर्मजालं विशोध्यते ॥ ६७८ यदात्यन्तविरक्तानां सद्यो निर्वाणदा भवेत् । तदेव दीक्षया मुक्तिरत्र शैवविनिश्चिता ॥ ६७९ ज्ञानं तु बुध्दिनिष्ठस्य अज्ञाननाशपुरःसरम् । कर्मक्षयकरं नात्मनिष्ठाज्ञाननिवर्तकम् ॥ ६८० तस्मान्न परमुक्तौ तत्साधनं हि तथा वचः । ६८१-1 विज्ञानयोगसन्यासैः भोगाद्वा कर्मणः क्षयात् । इत्यादि वचनं किञ्च वैदिके हि तथा श्रुतम् ॥ ६८२ परोक्षब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् । बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६८३ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन । योगादिश्च पदप्राप्तौ साधनं न तु मुक्तितः ॥ ६८४ दीक्षया मलनाशो हि नान्यथेति विनिश्चयात् । मलस्य द्रव्यरूपत्वात्तदपायस्तु दीक्षया ॥ ६८५ चक्षुषः पटलापायो भिषग्व्यापारतो यथा । न तु ज्ञानेन तेनेति क्वाचितु प्रतिपादनम् ॥ ६८६ मन्दादिशक्तिपातानां तथा दीक्षापुरःसरम् । ज्ञानाभ्यासेन कालेनमुक्तिरेवेति तत्परम् ॥ ६८७ वैदिकोतं त्वविद्या या अभावत्वेन सम्मतात् । ज्ञानादेव तु कैवल्यमित्येतदुचितं पुनः ॥ ६८८ तथा न शोचते शैवे प्रागुतेनैव वर्त्मना । यदुक्तं ज्ञानदीक्षा तु शास्त्रदीक्षेति तन्न च ॥ ६८९ दीक्षा ज्ञानवती प्रोक्ता सम्यक् तत्वावबोधजा । इत्येवं शास्त्रदीक्षायाः पृथक्त्वेन श्रुतं यतः ॥ ६९० सा दीक्षा हि क्रियाशक्तिः शिवस्य परमात्मनः । तया विना कुतो मुक्तौ साधनं किञ्चिदिष्ते ॥ ६९१ ज्ञानं स्याच्छास्त्रदीक्षेति यदुक्तं तन्न युज्यते । श्रवणादि क्रियामूलं शास्त्रज्ञानं हि यत्स्फुटम् ॥ ६९२ ततस्तथाविधेनैव कर्मणा न विनागतिः ॥ ६९३-1 अथायं तु मतङ्गादिर्विना दीक्षां महेश्वरात् । प्राप्तवानागमज्ञानमित्युक्तं च न युज्यते ॥ ६९४ महेशेन यदा दृष्टो मतङ्गो दीक्षितस्तदा । चक्षुरुन्मील्य यत्तत्वं ध्यात्वा शिष्यं समीक्षते ॥ ६९५ पाशबन्धविमोक्षाय दीक्षेयं चाक्षुषी भवेत् । इत्यतो ध्येयतत्वं हि भगवान् परमेश्वरः ॥ ६९६ अदीक्षितस्य सिद्धान्तश्रवणादौ विधिस्तु न । ६९७-1 त्वदुक्तौ न्यायवर्तिभ्य इति तत्र विशेषणात् । न्यायवर्तिन एतेऽत्र शिवदीक्षानुवर्तिनः ॥ ६९८ तदेवं परमोक्षादौ दीक्षैव मुख्यसाधनम् । अतो दीक्षाविशेषेण शैवे ह्येवं च विश्रुतम् ॥ ६९९ दीक्षितः शिवजातिः स्यादन्यजातिर्न विद्यते । पुत्रकाणां साधकानां तथा समयिनामपि ॥ ७०० प्राक्रजात्युदीषणा ॥॥ शो भवेत् । दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य तु । पितामहस्य पक्षैकं नरके पच्यते तु सः ॥ ७०१ अनुपनीतः प्रथमो द्वितीयोप्युपनीतकः । वेदाध्यायी तृतीयः स्यादग्निहोत्री चतुर्थकः ॥ ७०२ यज्ञयाजी च तत्रैव पञ्चमश्च प्रकीर्त्तितः । सत्रयाजी तु षष्टः स्याद्वेदान्ती सप्तमः स्मृतः ॥ ७०३ उत्तरोत्तरतश्चैते श्रेष्ठा वृत्या सहस्रकम् । मुख्यं वेदान्तविदुषः कोटिश्रेष्ठं च मत्प्रियः ॥ ७०४ भक्त्या भजति मामेव सर्वजातिषु तत्र वै । सर्वेषां दीक्षितानां तु सदृशं नास्ति लौकिके ॥ ७०५ यथा शिवस्तथा भक्तको यथा भक्तस्तथा शिवः । तस्मात्सर्वप्रयत्नेन दीक्षितानां च भोजनम् ॥ ७०६ भोगमोक्षप्रदानत्वात्कारणं च मम प्रियम् । तपो विद्याधिकस्यापि कर्तव्यं नाभिवादनम् ॥ ७०७ तदेवं दीक्षया मुक्तिर्मलनाशपुरःसरम् । आणवः सहजः सिद्धः जीवस्यानादिसम्भवः ॥ ७०८ मुक्तौ च तदपायश्च मुच्यते हि तथागमः । अथात्मा समलो बद्धः पुनर्मुक्तश्च दीक्षया ॥ ७०९ विषापहारं कुरुते ध्यानबीजबलैर्यथा । कुरुते पाशविश्लेषं तथाचार्यशिवाध्वरैः ॥ ७१० मन्त्रौषधबलैर्यद्वत् सन्निरोधो विषस्य तु । ७११-1 तथाहि सर्वपाशाना सन्निरोधस्तु दीक्षया । तदाणवस्य विश्लेषो न युक्त इति नोच्यते ॥ ७१२ अथास्य सहजस्याणोरुच्छेदे चेतनस्य च । उच्छेदस्पटिकस्येव दोषः स्यात्कर्षणादितः ॥ ७१३ इति चेन्न निरुपे तु रूपदृष्टान्तदोषतः । अथवा कालिमायास्तु विश्लेषे सति ताम्रगः ॥ ७१४ न स्वरूपविनाशश्च तथात्रैवं शिवागमः । सहजा कालिमा ताम्रै तत्क्षयान्न च तत्क्षयः ॥ ७१५ यथा ताम्रस्य तद्वत्स्यादेवं पुंसो मलक्षयः । रसविद्धं यथा ताम्र हेमत्वं प्रतिपद्यते ॥ ७१६ तथा विज्ञानसम्बन्धाच्छिवत्वं प्रतिपद्यते । मलापायस्तु तच्छक्तिनिरोधो हि तथागमः ॥ ७१७ अग्नेस्तु दाहिका शक्तिर्मन्त्रैराशु निरुध्यते । तद्वच्छक्तिसंरोधाद्विभक्तेत्यभिशब्द्यते ॥ ७१८ अनेनापि विरोधी न तदपाये तु निर्मलः । आत्मा मुक्तः स एवायं न मुक्तः समलो मतः ॥ ७१९ मनोवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् । इत्येवं मुक्त्युपायानामनुष्ठानप्रवर्तकम् ॥ ७२० देवीकालोत्तरे किन्तु श्रूयते मुक्तिलक्षणम् । मलैर्मुक्तस्तथात्मा तुमुक्त इत्युच्यते बुधैः ॥ ७२१ इत्येवं सुप्रभेदादौ शिवेन प्रतिपादितम् । ततो निर्मलतो मुक्तिर्भेदवादे व्यवस्थिता ॥ ७२२ २९। समवादम् अथायं समवादस्तु संग्रहेण निरस्यते । पूर्वोक्तवादसंसिद्धमङ्गीकृत्य यथोचितम् ॥ ७२३ न दीक्षामात्रतो मुक्तिः किन्तु ज्ञानादिनापि वा । शैव पूजाद्यनुष्ठाने योग्यता जनका हि सा ॥ ७२४ अन्यथा दीक्षितस्यात्र कर्तव्यं कथमुच्यते । विधानत्वेन चर्यादि स्वदीक्षोत्तरकालतः ॥ ७२५ दीक्षितानां क्रमेणैव सदाचारोनिगद्यते । नित्यादि कर्म कर्तव्यं शिवमार्गस्थितेषु च ॥ ७२६ तेषां साधारणं कर्म कार्यं सर्वात्मना मतम् । नित्यादि त्रितयं कार्यं चतुर्भिरविचारतः ॥ ७२७ वैश्वदेवं तथा सन्ध्यां शूद्रस्त्यक्त्वा त्रयीमयीम् । इत्यादि वचनादुत आचारस्तु विरुध्यते ॥ ७२८ न देहपातदीक्षा तु मुक्तिदा कर्मणा विना । प्रागनुष्ठित ॥॥॥॥॥॥॥॥॥॥॥। स्यादत्यन्तविरक्तानामिति तद्विधितः स्फुटम् ॥ ७२९ ततो दीक्षाविरुद्धस्य ज्ञानयोगादिती गतिः । दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥ ७३० ज्ञानतो योगतश्चैव चर्यातश्च मुच्यते । इत्यादि वचनं दीक्षास्तुतिरित्येव सम्मतम् ॥ ७३१ तद्दीक्षा ज्ञानयोगदेर्मुक्तिः शैवागमोदिता । न सा निर्मलतामात्राणूनां पाषाणवत्स्थितिः ॥ ७३२ न किञ्चिज्ज्ञानमप्यसय भवावस्थापरं ततः ॥ ? ७३३-1 परमः पुरुषार्थो हि मोक्ष एवेति सम्मतः । सतु मुक्तस्य यज्ज्ञानं पशुपाशादि वस्तुषु ॥ ७३४ स देशस्येव सर्वेषु यः सपूर्णमनोरथः । ज्ञानस्य शिववित्सिद्धैः क्रियाया निर्मलस्य च ॥ ७३५ षाङ्गुण्यस्य च तज्ज्ञानं क्रियामूलस्य सम्भवात् । तथा च शिववन्मुक्तः षट्गुणाढ्य इति श्रुतः ॥ ७३६ ज्ञानयोगं समासाद्य सतत्रैव विमुच्यते । न तेषा पुनरावृत्तिघोरे संसारसागरे ॥ ७३७ सर्वज्ञाः सर्वगाः सिद्धा इत्येवं आगमः पुनः ॥ ७३८ अप्रमेयगुणोपेतः सर्वज्ञः खलु सर्वदा । ७३९-1 सर्वकृत्सर्वलोकेशः शिवतुल्यः प्रजायते । इति निश्वासके किञ्च शिवधर्मोत्तरादिषु ॥ ७४० सर्वज्ञः परिपूर्णश्च शुद्धः सर्वगतः प्रभुः । संसारसागरान्मुक्तः शिवतुल्यः प्रजायते ॥ ७४१ सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहः स शिवत्वमेति ॥ ७४२ इति षाड्गुण्यसंप्राप्तिः परमोक्ष इति स्मृतः । तेनायं शिववन्मुक्तो राजते हि न चान्यथा ॥ ७४३ मुक्तिः प्रागुक्तरीत्यास्य निर्मलत्वं च केवलम् । मलैमुक्तस्तदात्मा तुमुक्त इत्युच्यते बुधैः ॥ ७४४ इत्येवं सुप्रभेदादेस्तात्पर्यमिदमिष्यते । तथा निर्मलतायां तु षाड्गुण्यं च भवेदिति ॥ ७४५ एवं सामान्यतः प्रोक्तः सदाशिवसमो मतः । ७४६-1 ३०। कौशिकम्। अथ कौशिकसिद्धान्तः समावेश इति श्रुतः। महीपतिरृषिः प्रोक्तः पूर्ववक्त्रेण दीक्षितः ॥ ७४७ अंशुमादिकवीरान्तं पुरुषेणोद्भवं भवेत् । इत्येवं वचनात् पश्चात् समावेशस्तु कौशिकः ॥ ७४८ तदावेशेन साम्यं तु संग्रहेण निरूप्यते । अप्रमेयगुणोपेतः सर्वज्ञः खलु सर्वदा ॥ ७४९ सर्वकृत्सर्वलोकेशः शिवतुल्यः प्रजायते । इत्यागमेषु मुक्तस्य श्रूयते शिवतुल्यता ॥ ७५० सा तु योगानुसारेण सायुज्याणीः शिवेन वै । मुक्तौ शिवसमावेशाच्छिव धर्मविभासतः ॥ ७५१ तथा मुक्तस्य लोकेऽपि ग्रहाविष्टस्यनुर्यथा ॥ ॥॥॥॥॥ दृश्यते ग्रहतुल्यता । अन्यथा भवकालेऽपि षड्गुणाढ्यो भवेत्पुमान् ॥ ७५२ तथाभिप्रायतश्चैव भ्रूयते हि शिवागमे । यथा भेषजसामर्थ्यादशक्तानां बलं परम् ॥ ७५३ तेन तच्छक्तियोगेन सामर्थ्यममितं भवेत् । एवं शैवाध्वरं प्राप्य दीक्षामन्त्रसमुद्भवम् ॥ ७५४ न पुनरजन्मतां याति दीक्षितो मनुजोत्तमः । इत्येवमत्रवायव्यसंहितायां च विश्रुतम् ॥ ७५५ अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः । मूर्त्यात्मस्वेवमैश्वर्यमीशस्यैव न चात्मनाम् ॥ ७५६ तत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि । शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७५७ अतो हि बन्धकाले च नृणां करणयोगतः। अयसाग्नेर्यथा योगे वियोगोऽग्नेर्यथाऽयसा ॥ ७५८ तत्वैस्तदात्मनश्चैव शक्त्या कर्मवशाद्भवेत् । अथावेशवशादेव तत्तद्धर्मान्वितो यदि ॥ ७५९ न चात्मा जड एव स्यादिति शङ्का न विद्यते । आत्मासौ चेतनो यस्मादाविष्टस्तेन तेन च ॥ ७६० ग्रहेणाविष्ट पुरुष इव वेत्ति करोति च । इत्यावेशेन साम्यं तु संग्रहेण समीरितम् ॥ ७६१ ३१। भारद्वाजम् उत्पत्तिसमतापक्षो भरद्वाजमतः श्रुतः । भारद्वाजं समुद्भूतमिति प्रागुक्तः पुनः ॥ ७६२ शर्वोक्तादिकसिद्धान्तं वातुलान्तमिति समृतम् । सद्योजातमुखेत्पन्नं भारद्वाजमृषिं तथा ॥ ७६३ सूत्रमार्गेण सञ्चिन्त्य सद्योजातं तु दीक्षितम् । इत्यत्रोत्पत्तितः साम्यं मुक्तिरेव न चान्यथा ॥ ७६४ प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् । एतत्समाधिमुत्कृष्टं प्रशंसन्ति मनीषिणः ॥ ७६५ शिवमेव स्वयं भाव्यं शिवमेव स्वयं भवेत् । इत्यादि शिवयोगेन ततोऽन्येन च यत्फलम् ॥ ७६६ श्रूयते शिवसाम्यं यदुक्तौ मुक्तात्मनामिह । तदपूर्वतया त्वेषा जायते परमार्थतः ॥ ७६७ शिवात्सर्वज्ञतामुख्य धर्मोत्पत्तिपरस्परम् । जीवन्मुक्तस्तुतद्विद्वान् पूर्वोपाधिगुणान्त्यजेत् ॥ ७६८ स सच्चिदादिधर्मित्वं भजेद् भ्रमरकीटवत् । इत्यनेनापि तत्स्पष्ट तथाचैव शिवागमे ॥ ७६९ संसारसागरान्मुक्तः प्रयोगेण तथा मतः ॥ ७७०Α न त्वावेशवशात्तत्वं तथात्वे शिवधर्मतः । मुक्तस्य भासमानानां परधर्मावलम्बतः ॥ ७७१ पुरुषार्थो न मुक्तस्य स्वसंपूर्णमनोरथः । अतो बन्धदशायां च तत्तद्गुणविनाभवः ॥ ७७२ नृणां ज्ञानं न लीनं तु कला कालादिभिः स्फुटम् । अन्यथा तु कुतः कर्म भोगवैचित्र्यसंभवः ॥ ७७३ प्रागुक्तवचनं सर्वमेतदर्थानुसारतः। युक्तमित्थं समुद्भूतसाम्यवादः समीरितः ॥ ७७४ ३२। आगस्त्यम् अथाभिव्यक्तिसाम्यं तु संग्रहेण निरूप्यते । पूर्वोक्तेर्ष्वथ भेदेषुचाङ्गीकृत्य यथोचितम् ॥ ७७५ अगस्त्य एतत्सिद्धान्तवादीति श्रूयते श्रूतौ । आगस्त्यमभिव्यक्तं तु चानादिस्तु परं स्मृतम् ॥ ७७६ बिम्बादिकं तु सिद्धान्तं वामदेवोद्भवं तथा । ब्राह्मणर्षिरगस्त्यः स्याद्वामवक्त्रेण दीक्षितः ॥ ७७७ इति साम्यश्रुतेर्मुक्तौ मुक्तस्य शिवतुल्यता । कल्प्या सा च समुत्पत्तिक्रमेण न हि सम्भवेत् ॥ ७७८ उत्पत्त्या सिद्धधर्मस्तु मुक्तस्य हि विनश्यति । मुक्तावपूर्वभावेन समुत्पन्नतया स्फुटम् ॥ ७७९ किन्त्वभिव्यक्रिमात्रेणयदेवं श्रूयते श्रुतौ । षाड्गुण्यव्यक्तये तेन स्त्रुवेणाज्याहुतिस्तु षट् ॥ ७८० इति निर्वाणदीक्षोक्तविधिमार्गानुसारतः । व्यक्तोऽसौ शिववद्भाति शिव एव तनुक्षये ॥ ७८१ सर्वज्ञः स शिवो यद्वत्किञ्चिज्ज्ञत्वविवर्जितः । शिवत्वव्यक्तिसंपुरणः संसारी न पुनास्तदा ॥ ७८२ इति मुक्तौ च तद्वयक्तिसाम्यमेवेति निशिचतम् । पूर्वत्रोक्तागमार्थश्च स एवाभ्युपपद्यते ॥ ७८३ अतो हि गुरुभिश्चापि तथैव प्रतिपाद्यते । दृष्टा नैनं हि मोहान्धैः सदेश्वरसमानता ॥ ७८४ समता च समुत्पत्तिसङ्कातयावेशपक्षतः । नाभिव्यक्तिः परा गीता बुध्दिवाचामगोचरा ॥ ७८५ तदेवं व्यक्तिसाम्यं तु यथान्यायं निरूप्यते । सदसद्व्यक्तिवर्जितः सच्चिदानन्दरूपी यः ॥ ७८६ स एव सर्वगः सद्भिः ब्रह्मशब्देन शब्दितः । इत्येवं श्रूयते शम्भोर्धर्मामाणां त्रितयं क्वचित् ॥ ७८७ साम्येऽत्र सत्वचित्वाभ्यां न विवादः शिवात्मनोः । ७८८-1 आनन्दात्मतया त्वेतत्तयोर्निश्चीयते परम् । उच्यमानोऽयमानन्दो यो धर्मश्चेतनात्मकः ॥ ७८९ क्रियाज्ञानसमृद्धिः स्यात्प्रकृत्यर्थानुसारतः । समृद्धिः परिपूर्तिश्च व्याप्तिश्चाखण्डितेति च ॥ ७९० तृप्तिश्चानन्दपर्याय इहैते सर्वतः समाः । इत्थं सत्यतिरिक्तोऽथों रसो नास्माभिरिष्यते ॥ ७९१ इति रत्नत्रयादौ हि गुरुभिश्च निरूपितः । वेदान्तैश्चतुराम्नायैस्तथान्यैः प्रतिपाद्यते ॥ ७९२ आनन्दविप्रलब्धानामानन्दोपहिता चितिः । चिन्महोदधिगाम्भीर्यमवसीयेत सूरिभिः ॥ ७९३ ततः समाधिसंप्राप्तं यदिदं सुखमात्मनः । शिवानन्दान्न किन्त्वेतदात्मशक्तेर्विजृम्भणम् ॥ ७९४ तदेतत्सचिदानन्दरूपीत्यादौ शिवागमे । दृष्टस्यानन्दशब्दस्य समृद्ध्यर्थः स युज्यते ॥ ७९५ तथा चास्ति हि चैतन्यसम्रृद्धिरिदमेतयोः । ततो मुक्तात्मशिवयोः साम्यमप्येतदक्षयम् ॥ ७९६ अनेनाचिन्त्यविश्वादौ मुक्तिरूपोपपादके । ब्रह्मप्राप्त्यवधिस्तेन चात्मानन्दसुखं भवेत् ॥ ७९७ शिवानन्दमनुप्राप्य चाविर्भावाय कल्पते । इत्येवमादि सूत्रेऽपि सोऽर्थःसमुपपाद्यते ॥। ७९८ तदेवं सच्चिदानन्दधर्मसाम्यमितीरितम् । अथ सर्वज्ञकर्तृत्वधर्मतोऽप्यवधार्यताम् ॥ ७९९ शिववत्सर्वकर्तृत्वे सर्वज्ञत्वेच सत्यपि । न करोति न जानाति भृशं मुह्यति बालवत् ॥ ८०० तीव्रशक्तिनिष्पातेन गुरुणा दीक्षितो यदा । सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः ॥ ८०१ शिवत्वव्यक्तिसंपूर्णः संसारी न पुनस्तदा। इत्यादि श्रवणादीदृक् साम्यं च शिवमुक्तयोः ॥ ८०२ प्रकारान्तरतः शास्त्रे षाङ्गुण्यं प्रतिपाद्यते । यथा शिवे तथा जीवे मुक्तौ तदपि युज्यते ॥ ८०३ सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहःस शिवत्वमेति ॥ ८०४ इत्येवं श्रूयते यस्मात्सर्वज्ञानोत्तरागमे । एवं नानापथेनापि जीवात्मपरमात्मनोः ॥ ८०५ अभिव्यक्तिमते मुक्तौ साम्यं सिद्धयति सर्वथा । ततश्च शिवपूजादौ नारुद्रो रुद्रमर्चयेत् ॥ ८०६ इत्यतस्तत्समोऽर्हः स्यात् शिवोऽहंभावनादिभिः । प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ॥ ८०७ शिवमेव स्वयं भाव्यं शिवमेव स्वयं भवेत् । समरसीभावयोगात्तत्समाधिरिहोच्यते ॥ ८०८ व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् । संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ ८०९ भुक्तिः स्वात्मनि संसिद्धं शिवत्वं भावयेत्सदा । शिवत्वव्यक्तिरेवं स्यात्शिवसाम्यं तथा वचः ॥ ८१० जीवन्मुक्तस्तुतद्विद्वान्सर्वोपाधिगुणान्त्यजेत् । स सच्चिदादि धर्मित्वं भेजे भ्रमरकीटवत् ॥ ८११ नान्य एवेत्युपायै (धे) श्च साम्यसिद्धिः प्रदृश्यते । ३३। गौतमीयम् शिवादाधिक्यवादजोऽयं गौतमीय इति स्मृतः । अधिकं परमेशानादिति कैवल्यमुच्यते ॥ ८१२ इति सूत्रं किं प्रतिपादयति? शिवादाधिव्यवादं दर्शयति । अत्र शिवादाधिक्यवादोऽयं गौतमीय इति श्रुतः इति कथम्? तदागमश्रवणात् । यदुक्तं प्राक् “भारद्वाजं समुद्भूतं शिवादाधिक्यगौतमं” इति । अथात्र शिवादाधिक्यमेव कैवल्यमिति प्रतिपादनं शिवसाम्याभ्युपगमे त्वनौपम्यतया संपूर्णमनोरथपुरुषार्थासम्भवात् । शिवादाधिक्यवादस्तु संग्रहेण निरूप्यते । व्यक्तिसाम्यमते प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ८१३ पशुरेव शिवो यस्मात्पञ्चकृत्यकरः श्रुतः । स इत्थं विग्रहोऽनेन करणेनाहतौजसा ॥ ८१४ करोति सर्वदा कृत्यं यदा यदुपपद्यते । इति तत्कृत्यभेदेन लयावस्थादिसंभवः ॥ ८१५ तेनायं पाशसंबन्धः पशुरेव शिवः स्मृतः । अनुग्रहतिरोभावौ द्वौ पाशौ तु सदाशिवे ॥ ८१६ इत्यादि वचनात्किञ्च पशुराद्यः सदाशिवः । एवं बूतात्सदाशिवादुत्कर्षेणैव वर्तते ॥ ८१७ सर्वबन्धविनिर्मुक्तको निष्कर्मा निरवस्थितः । मुक्तको मुक्तावुपायस्तु व्यक्तिवादोक्तवर्त्मना ॥ ८१८ शिवोऽहं भावनाख्यः स्यात्स्वरूपध्यानगोचरः । अन्यथा शिवधर्मस्य निकृष्टस्यतु भावना ॥ ८१९ कथं ददाति मुख्यत्वं मुक्तस्य परमात्मनः । न किञ्चिदपि कर्तव्यमिति हि श्रूयते श्रुतिः । ८२० न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः । इति मुक्तस्य न तथा सर्वदाऽस्य महेशितुः । ८२१ तदेवमीशादाधिक्यमुक्तिरेव परा नृणाम् । शिवेन साम्यमुक्तिस्तु फल्गुप्राया निरस्यते । ८२२ नानौपम्यतया तत्र स्वसंपूर्णमनोरथः । पुरुषार्थः कुतः प्राप्तः परम इति निश्चयात् । ८२३ शैव भेदं प्रवक्ष्यामि ऐक्यपाषाणवादिनौ । भेदवादी समवादी संक्रान्तिश्चाविकारवान् ॥ ८२४ ३४। काश्यपमा संक्रान्त्या शिवसाम्यं तु तादात्म्यं काश्यपाशये । आत्मनः शिवसायुज्यं स्वसाध्यमविकारिणाम् । ८२५ इत्ययं किं प्रतिपादयति? शिवसंक्रान्ताविकारवादो दर्शयति । अत्र काश्यपाभिमते संक्रान्तिसमतापक्षे तत्साम्यं तादात्म्यमेवेति प्रतिपादनं तदितराभिव्यक्ति उत्पत्त्यभ्युपगमे त्वनेकेश्वरवादादिदोषसंभवात् । शैवे संक्रान्तपक्षोऽयं काश्यपाभिमतः श्रुतः । कौशिकः काश्यपः चैव भारद्वाजश्च गौतमः ॥ ८२६ अगस्च्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः । कामिकादि सहस्रान्तमीशानं ॥॥ था ॥ ८२७ काश्यपं ब्रह्मर्षिप्रोक्तमूर्ध्ववक्त्रेण दीक्षितम् । संक्रान्तिशैवं काश्यपमित्येव रौरवागमे ॥ ८२८ इत्येवं तत्र संक्रान्तिसाम्यमुक्तौ तु युक्तिमत् । अनेकेश्वरवादादि दोष एव न संभवेत् ॥ ८२९ अथ संक्रान्तपक्षोऽयं कथ्यते लेशतोऽधुना । प्रागुक्तसमवादार्थमङ्गीकृत्य यथोचितम् ॥ चेतनः पतिरेवान्यौ पशुपाशौ जडात्मकौ ॥ ८३० पाशवत्तत्पशुश्चात्र जड एवेति विश्रुतः । अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः ॥ ८३१ इति स्वायम्भुवाद्युक्तमात्मधर्मनिरूपणे । तदेवं सिद्धजीवात्मा निर्विकारी तथापि सः ॥ ८३२ शरीरे दीपवद्भाति सर्वदा स्वप्रकाशतः । कान्तस्य सन्निधौ यद्वदयश्चेष्टा प्रदृश्यते ॥ ८३३ सन्निधौ तस्य जीवस्य योगसिद्धिश्च जायते । तत्तत्कर्मानुसारेण बुद्धौ तत्प्रतिबिम्बतः॥ ८३४ प्राणव्यापारतो जातदेहचेष्टादिना पुनः । अजातप्राणवृत्यातुन तथा जडकालतः ॥ ८३५ एवं संसारिणस्तस्य शक्तिपातादिसम्भवे । प्राणायामाभ्युपायेन परयोगानुसारतः ॥ ८३६ सदाचार्योपदेशेन समाधिश्च विलीयते । श्यामनीलादिसम्बन्धात्स्फटिकत्वं मणौ स्थितम् ॥ ८३७ त्यक्त्वा तानि प्रयत्नेन शुद्धस्फटिकमावहेत् । इत्येवं सुप्रभेदेऽथ निश्वासाख्ये तथा पुनः ॥ ८३८ स च योगेन दृश्येत प्रत्यक्षं जलचन्द्रवत् । अमायी निर्विकारी च बहिरन्तश्च संस्थितः ॥ ८३९ समायी बिम्बसंक्रान्तः खे स्थितेन कृती जले । मलिनेऽपि स्वदेहेऽपि दृश्यते परमेश्वरः ॥ ८४० जलसंपुर्णमध्ये तु छायारूपं यथा विशेत् । नोत्सरेनैव भिद्यत तद्वद्देवी विराजते ॥ ८४१ काष्ठमध्ये स्थितो यद्वन्मथितो निर्मलोऽनलः ॥ ८४२-1 स च शान्तमये प्राप्ते न भूयो विशतेऽरणिम् । सम्यक् ज्ञानं विदित्वा तु पशुवन्न भवेत्पुनः ॥ ८४३ न पशोः करणं चैव शिवस्यैव तथा वचः । शिवेनैक्यं गतः सिद्धस्तदधीनस्ववृत्तिकः ॥ ८४४ मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् । एवं तत्करणत्वेन शिवभूतस्य योगिनः ॥ ८४५ विषयासक्तियोगेऽपि नागाम्यमिति च श्रुतम् । पद्मपत्रं यथा तोयैस्तत्स्थैरपि लिप्यते ॥ ८४६ शब्दादिविषयाम्भोभिर्युक्तो ज्ञानी न लिप्यते ॥ ८४७-1 तदेवं परमुक्तौ च तत्रैव वचनं श्रुतम् । अथात्मा तु शिवे लीनो जले तु लवण यथा ॥ ८४८ अविशेषं भजेन्मुक्तौ आत्मा तु परमात्मनि । शिवसमानतारूपं शिवविग्रहमेव च ॥ ८४९ सकले निष्कले चैव सर्वत्रैव समानता । सायुज्यमिति तत्प्रोक्तमिति तादात्मयमेव तत् ॥ ८५० इत्येवं शिवसंक्रान्तपक्षी लेशानिरूपितः । ८५१-1 ३५। ईश्वर अविकारवादम् शिवाविकारमार्गोऽयं कथ्यते लेशतोऽधुना । शिवसंक्रान्तसाम्योक्तमङ्गीकृत्य यथोचितम् ॥ ८५२ शिव एव जगत्कर्ता तद्वदात्मा च चेतनः । पाश एवजडः प्रोक्तः पदार्थत्रयलक्षणम् ॥ ८५३ अज्ञो जन्तुरनीशोऽयमित्यादि वचनात्कचित् । आत्मना मन्त्रतोक्तिस्तु न स्वभावात्समीरिता ॥ ८५४ पाशेनात्यन्तसंश्लेषात्पाशधर्मानुसारिणी । तथा जीवो बहुच्छिद्रघटे दीप इवस्थितः ॥ ८५५ देहेऽस्मिन् कर्मभोगार्थं स्वयमेव प्रवर्तते । ८५६ शिवसन्निधिमात्रेण सहायेन तथागमः । यस्य सन्निधिमात्रेण चेष्टन्ते सर्वजन्तवः ॥ ८५७ इत्येवं निजसामर्थ्यान्नियतार्थसमीहितैः । इन्द्रियैजायिते सर्वं तथैव श्रूयते वचः ॥ ८५८ कलोद्बलितचैतन्यो विद्यादर्शितगोचरः । रागेण रञ्जितश्चापि बुद्धत्यादिकरणैर्युतः ॥ ८५९ मायाद्यवनिपर्यन्तं तत्वभूतात्मवर्त्मनि । भुङ्क्ते तत्र स्थितान्भोगान्भोगैकरसिकः पुमान् ॥ ८६० अक्षाण्यात्मप्रभुप्रेर्याण्यपि तन्न विदुः स्वयम् । तैर्विना यन्न वेत्यर्थं न विना तेन तान्यपि ॥ ८६१ एवं संसारिणस्तस्य शक्तिपातादिसम्भवे । ज्ञानाद्युपायतो मुक्तौ प्रयत्नं च विधीयते ॥ ८६२ उत्साहान्निश्चयाद्ध्येयादभ्यासात्तत्वदर्शनात् । मुनेर्जनपदतयागाअद्योगः षड्भिः प्रसिध्यति ॥ ८६३ उल्काहसतो यथा कशिचत् द्रव्यमालोक्य तां त्यजेत । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ८६४ इत्याद्युपायसंपन्नः स्वसामर्थ्यविशेषतः । पशुभावपरित्यागाद्भजत्येकान्ततः शिवम् ॥ ८६५ पुरुषो धर्मसन्तप्तः स्वचछायापरिशोभितम् । वृक्षं स्वच्छं जलं वापि यथा तद्वदिहागमः ॥ ८६६ चिद्दृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिमरीचिकाम् । लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरं सुधीः ॥ ८६७ नैव शून्यं न चाशून्यं अशून्यं शून्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ८६८ जलं सामुद्रमासाद्य नदी हृष्टाम्बुवाहिनि । क्षारतोयत्वमायाति प्रभावाद्धिमहोदधेः ॥ ८६९ एवं वै देहभिन्नात्मा शान्तिमेवाधिगच्छति । एकान्तेऽवस्थितः सैष शिवशक्तिसमन्वितः ॥ ८७० सर्वान्बन्धान्परित्यज्य मुक्तो व्रजति तं परम् । इतीश्वराविकाराख्यपक्षः सोऽयं विनिशिचतः ॥ ८७१ ३६ परिणामवादम् परिणाममते मुक्तिः स्करूपावाप्तिरिष्यते । मकुटाजितवीरादिदक्षिणागामवर्त्मना ॥ ८७२ इत्ययं किं प्रतिपादयति? निमित्तकारणपरिणामवादं दर्शयति । अथात्र उक्तकारणपरिणामवादे नृणां स्वरूपावाप्तिरेव मुक्तिरितिप्रतिपादनं तेषांशिवात्मकत्वेन तदितरेषां च तथात्वेनाभ्युपगम्य प्रगुक्ताविकारादिवादरीत्याशिवं विना पदार्थान्तराभ्युपगमात् । ३७। शैवम् अथात्र शैवपक्षार्थः संग्रहेण निगद्यते । पूर्वतः प्रोक्तपक्षेष्वप्यङ्गीकृत्य यथोचितम् ॥ ८७३ उक्तानां त्रिपदार्थानां अनन्यत्वं परस्परम् । व्याप्तितस्तत्र जीवस्तु स्वप्रकाशचिदात्मकः ॥ ८७४ अनादि मलबद्धोऽयमज्ञः केवलतः पुनः ॥ ८७५-1 कलादि ज्ञानसंप्राप्त्या दीपवत्परमेष्ठिना । सुखदुःखादिकान्भोगान्भुङ्क्ते संसारकालतः ॥ ८७६ एवं संसारिणस्तस्य शक्तिपातादिसम्भवे । शिवोऽयं देशिको भूत्वा दीक्षापूर्वं यथामतिम् ॥ ८७७ मलमायादिबन्धानां मुक्त्युपायं वदत्यथ । तद्विधोपायसंसिद्धौ ज्ञानं तज्जायते स्कुटम् ॥ ८७८ तदेव तादृशज्ञातृज्ञानज्ञेयविहीनतः । तज्जीवपरयोरैक्यतादात्म्यमपि सिद्ध्यति ॥ ८७९ न त्वत्रातिशयः कश्चिदानन्दानुभवः पुनः । तथात्वे भेदवादः स्यात्तत एवं वचः श्रुतम् ॥ ८८० देहपाते शिवो भूत्वा शिवधर्मान्वितः स च । न पुनर्भेदमायाति सरित्तोयमिवाम्बुधौ ॥ ८८१ ज्ञातृज्ञानज्ञेयभेदविहीनं तत्परं पदम् । प्राप्य लाभाच्च मुक्तोऽसौ किं पुनः प्राप्यमिष्यते ॥ ८८२ इतयेवं संग्रहेणत्र शैवपक्षः समीरितः ॥ ८८३-1
Contents | Sarva Siddhānta Vivēka | Jñānasiddhi | Home