Tamil Arts Volume7
नारायण सूक्तम्
शहस्र शीर्षम् देवम् विश्वाक्षम् विश्वसम्भुवं ।
विश्वम् नारायणं देवं अक्षरं परमं पदम् ॥
विश्वतः परमान् नित्यं विश्वं नारायणँ हरिम् ।
विश्वमेवेदँ सर्वम् तद् विश्वं उपजीवति ॥
पतिं विश्वस्यात्मेश्वरँ शास्वतँ शिवं अच्युतम् ।
नारायणं महा ज्ञेयं विश्वात्मानं परायणम् ॥
नारायण परो ज्योतिः आत्मा नारायण परः ।
नारायण परं ब्रह्म तत्त्वम् नारायणः परः ॥
नारायण परो ध्याता ध्यानन् नारायणः परः ।
यच्च किञ्चित् जगत् सर्वम् दृश्यते श्रूयतेऽपि वा ॥
अन्तर् बहिश्च तत् सर्वम् व्याप्य नारायणः स्थितः ।
अनन्तं अव्ययं कविँ समुद्रेन्तं विश्व सम्भुवम् ॥
पद्म कोश प्रतीकाशं हृदयम्चाप्यधोमुखम् ।
अधो निष्ठया वितस्यान्ते नाभ्याम् उपरि तिष्ठति ॥
ज्वालमालाकुलम् भाति विश्वस्य आयतनम् महत् ।
सन्तत्म् शिलाभिस्तु लम्बत्याकोश सन्निभम् ॥
तस्यान्ते सुषिरं शूक्ष्मं तस्मिन् सर्वम् प्रतिष्ठितम् ।
तस्य मध्ये महान् अग्निः विश्वार्च्चिः विश्वतो मुखः ॥
सोग्रभुक् विभजन् तिष्ठन् आहारम् अजरः कविः ।
तिर्यक् ऊर्ध्वं अधः शायी रश्मयः तस्य सन्तता ॥
सन्तापयति स्वम् देहम् आपाद तल मस्तकः ।
तस्य मध्ये वन्हि शिखा अणीयोर्ध्वा व्यवस्थिता ॥
नील तोयद मध्यस्था विद्युल्लेखेव भास्वरा ।
नीवार शूकवत् तन्वी पीता भास्वत्यनूपमा ॥
तस्याः शिखाया मध्ये परमात्मा व्य्वस्थितः ।
स ब्रह्मा स शिवः स हरिः सेन्द्रः सोक्षरः परमः स्वराट् ॥
ऋतँ सत्यम् परम् ब्रह्म पुरुषं कृष्ण पिंगलं ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरुपाय वै नमः ॥
विश्वरूपाय वै नम ओं नम इति ॥
नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥